________________
योगशास्त्रम्
वृतीय प्रकाशा
॥३१॥
च असत्यादिप्रतिषेधपरताऽपि सुवचैव । यद्यवं, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह-तप्तायोगोलकल्पस्येति। गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति, भूक्त, शेते, व्यापारान्तरं वा कुरुते, तत्र तप्तायोगोलक इव जीवोपमर्द करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्येत्यत्र सम्बध्यते, तप्तायोगोलकल्पस्यापीत्यर्थः। यदाहश्तत्तायगोलकप्पो पमत्तजीवोऽणिवारियप्पसरो । सव्वत्थ किं न कुज्जा पावं तकारणाणुगओ ॥१॥ साधूनां तु समितिगुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥२॥
लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याहजगदाक्रममाणस्य प्रसरल्लोभवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥३॥
लोभ एव दुर्लङ्घयत्वाद्वारिधिः समुद्रः प्रसरंश्चासौ नानाविकल्पकल्लोलाकुलतया लोभवारिधिश्च, तस्य विशेषणं जगदाक्रममाणस्य । वारिधिपक्षे जगल्लोकः, लोभपक्षे तु निःशेषमेव भुवनत्रयम् । लोभवशगो हि ऊर्ध्वलोकगतां सुरसम्पदं मध्यलोकगतां च चक्रवर्त्यादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदमभिलषस्त्रिभुवनमपि मनोरथेराक्रामतीति लोभस्य जगदाक्रमणम् , तेन स्खलनं प्रसरनिरोधः, तद्विदधे, येन किं ? येन पुरुषेण दिग्विरतिविहिता । दिग्विरतो हि प्रतिज्ञातसीमातः परतोऽगच्छंस्तत्स्थमुवर्णरूप्यधनधान्यादिषु प्रायेण लोभं न कुरुते इति लोभलक्षणपापस्थानविरतिपरताऽस्य व्रतस्य । अत्रान्तरश्लोकाः
(१) तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र कि न कुर्यात् पापं तत्कारणानुगतः ॥
॥३१
॥