________________
| द्वितीय प्रकाशा
शाखम् ।३०८॥
वा वने जनपदेऽपि वा । शक्काऽऽतकाकुलतया धनी सर्वत्र दुःखितः ॥११॥ निर्दोषा वा सदोषा वा सुखं जीवन्ति निर्धनाः । बाध्यन्ते धनिनो लोके दोषैरुत्पादितैरपिः ॥१२॥ अर्जने रक्षणे नाशे व्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छभल्ललीलां धनं नृणाम् ॥१३॥ धिग्धनं धनवन्तो यदेकामिषजिघक्षुभिः। स्वजनैरपि बाध्यन्ते शुनकाः शुनकैरिव ॥१४॥ इत्थमर्थ लभेयाई रक्षेयं वर्द्धयेय च। कृतान्तदन्तयन्त्रस्थोऽपीत्याशां न त्यजेद्धनी ॥१५॥ पिशा वीव धनाशेयं यावदुच्छ्रङ्खला भवेत् । तावत् प्रदर्शयेन्नृणां नानारूपां विडम्बनाम् ॥१६॥ यदीच्छसि सुखं धर्म मुक्तिसाम्राज्यमेव च। तदा परपरीहारादेकामाशां वशीकुरु ॥१७॥ स्वर्गापवर्गनगरप्रवेशप्रतिरोधिनी। अभेद्या वज्रधाराभिराशैव हि महार्गला ॥१८॥ आशैव राक्षसी पुंसामाशैव विषमञ्जरी । आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥१९॥ ते धन्याः पुण्यभाजस्ते तैस्तीर्णः क्लेशसागरः। जगत्संमोहजननी यैराशा ऽऽशीविषी जिता ॥२०॥ पापवल्लीं दुःखखानि सुखाग्नि दोषमातरम् । आशां निराशीकुरुते यस्तिष्ठति सुखेन सः ॥२१॥ आशादवाग्नेमहिमा कोऽपि लोकपथातिगः। धर्ममेधं समाधि यो विध्यापयति तत्क्षणात् ॥२२॥ दीनं जल्पन्ति गायन्ति नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः पुमांसो धनिनां पुरः।।२३।। न यान्ति वायवो यत्र नाप्यन्दुमरीचयः । आशामहोर्मयः पुंसां तत्र यान्ति निरर्गलाः॥२४॥ येनाशायै ददे स्वाम्यं तेनात्तं दास्यमात्मनः। आशा दासीकृता येन तस्य स्वाम्यं जगत्त्रये।।२५।। नाशा नैसगिकी पुसि या जीर्यति न जीर्यति । उत्पात एव कोऽप्येषा तस्यां सत्यां कुतः सुखम्।।२६।। वलयो वलयाः पुसा पलितानि खजः कृताः। किमन्यन्मण्डनं कृत्वा कृतार्थाऽऽशा भविष्यति ॥२७॥ प्राप्तेभ्योऽप्यतिरिच्यन्ते तेऽस्त्यक्ता य आशया । क्रोडीकरोति यानाशा ते तु स्वप्नेऽपि
|॥२९॥