________________
योगशास्त्रम् ॥३०९॥
द्वितीय प्रकाशा ॥३०९॥
दुर्लभाः॥२८॥ यानर्थान् बहुभिर्यत्नरिच्छेत्साधयितुं नरः। अयत्नासिद्धा एवैते कृते ह्याशानिमीलने॥२९॥ पुण्योदयोऽ स्ति चेत् पुंसां व्यथैवाशापिशाचिका । अथ पुण्योदयो नास्ति व्यथैवाशापिशाचिका ॥३०॥ अधीती पण्डितः प्राज्ञः पापभीरुस्तपोधनः। स एव येन हित्वाऽऽशां नैराश्यमुररीकृतम् ॥३१॥ सुखं सन्तोषपीयूषजुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः ॥३२॥ सन्तोषवर्मणि व्यर्था आशानाराचपळूक्तयः । ताः कथं प्रतिरोद्धव्या इति मा स्माकुलो भवः ॥३३॥ वाक्येनैकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता च प्राप्त च परमं पदम् ॥३४॥ तत्सन्त्यजाऽऽशावैवश्यं मितीकृतपरिग्रहः । भजस्व द्रव्यसाधुत्वं यतिधर्मानुरक्तधीः ॥३५॥ मिथ्याग्भ्यो विशिष्यन्ते सम्यगदर्शनिनो जनाः। तेभ्योऽपि देशविरता मितारम्भपरिग्रहाः ॥३६॥ यामन्यतीथिका यान्ति गति तीव्रतपोजुषः। उपासकाः सोमिलवत्तां विराद्धव्रता अपि ॥३७।। मासे मासे हि ये बालाः कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते कलां नाईन्ति षोडशीम् ॥३८॥ अप्यद्भुततपोनिष्ठस्तामलिः पूरणोऽपि वा। सुश्रावकोचितगतेरतिहीनां गतिं ययौ ॥३९॥
आशापिशाचवित्रशं कुरु मा स्म चेतः, सन्तोषमुबह परिग्रहनिग्रहेण । श्रद्धां विधेहि यतिधर्मधुरीणताया-मन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥४०॥११५॥ इति परमाईतश्रीकुमारपालभूपालशुश्रषिते आचार्यश्री हेमचन्द्रविरचिते अध्यात्मोपनिषनाम्नि सञ्जातपट्टवन्धे
श्रीयोगशास्त्रे स्वोपज्ञं द्वितीयप्रकाशविवरणम् । (१) 'भावसाधुत्वं' इति प्रत्यन्तरम् ।