________________
पोग
शास्त्रम्
॥३०७॥
सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् ॥ ११५ ॥ निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी कामधेनुः, सा अनुगच्छतीत्येवंशीला अनुगामिनी, अमराः सुराः, किङ्करा इवाचरन्ति किङ्करायन्ते । तस्येति योगः यस्य किम् ? यस्य पुंसः सन्तोषो भूषणमलङ्करणम् । तथाहि —सन्तुष्टा मुनयः शमप्रभावात्तृणाग्रादपि रत्नसमूहान् पातयन्ति, कामितफलदायिनश्च सुरेन्द्रैरप्यहमहमिकयोपचर्यन्त इत्यत्र कः सन्देहः । अत्रान्तरश्लोकाः
धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्रवास्तुनी । द्विपाच्चतुष्पाच्चेति स्युर्नव बाह्याः परिग्रहाः। ! १ ॥ रागद्वेषौ कषायाः शुग्हासौ रत्यरती भयम् । जुगुप्सा वेदमिध्यात्वे आन्तराः स्युश्चतुर्दश ॥२॥ बाह्यात् परिग्रहात्प्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालर्कविषजोपद्रवा इव ||३|| प्राप्तप्रतिष्ठानपि च वैराग्यादिमहादुमान् । उन्मूलयति निर्मूलं परिग्रहमहाबलः १ ||४|| परिग्रहनिषण्णोऽपि योऽपवर्गे विमार्गति । लोहोडुपनिविष्टोऽसौ पारावारं तितीर्षति ||५|| बाह्याः परिग्रहाः पुंसां धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते समिधामिव वह्नयः ||६|| बाह्यानपि हि यः सङ्गान्न नियन्त्रयितुं क्षमः । जयेत् क्लीवः कथं सोऽन्तः परिग्रचम्मम्म् ||७|| क्रीडोद्यानमविद्यानां वारिधिर्व्यसनार्णसाम्१ । कन्दस्वष्णामहावल्लेरेक एव परिग्रहः ॥ ८॥ अहो आश्चर्यमुन्मुक्तसर्वसङ्गान्मुनीनपि । धनार्थित्वेन शङ्कन्ते धनरक्षापरायणाः ||९|| राजतस्करदायादवहितोयादिभीरुभिः । धनैकतानैर्धनिभिर्निशास्वपि न सुध्यते ॥१०॥ दुर्भिक्षे वा सुभिक्षे
(१) वायुः । (१) जलानाम् ।
द्वितीय
प्रकाशः
२२८९ ॥