________________
योग
शास्त्रम्
॥३०६ ॥
राज्यमन्वशिषत्पितुः ॥९८॥ वर्त्तमानः स्वयं घर्मे स प्रजा अध्यवर्त्तयन् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ||९९ || राजा चक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽसावप्रमद्वरमानसः ॥ २०० ॥ बहिरङ्गान् यथाऽजैषी दुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा स लोकद्वयसाधकः ||१|| तमूचे श्रेणिकोऽन्येस! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ||२|| पित्राज्ञाभङ्गसंसारमीरुरित्यमयोऽब्रवीत् । यदादिशत तत्साधु प्रतीक्षध्वं क्षणं परम् ||३|| इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ||४|| ततो गत्वाऽभयो नत्वा पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यतत्रैवोदायनं प्रभुः ||५|| गत्वोचे श्रेणिकं सोऽस्मि राजा चेण ऋषिस्तदा । श्रीवीरोऽन्तिमराजर्षि शशंसोदायनं यतः ॥६॥ श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामषि । नो छेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः||७|| नाम्नाऽहमभयस्तात । सभयोऽस्मि भवाद्भृशम् । भुवनाभयदं वीरं तच्छयामि समादिश ||८|| तदलं मम राज्येनाभिमानमुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुर्महर्षयः || ९ || निर्बन्धाद्ग्राह्यमाणेऽपि न यदा राज्यमग्रहीत । तदाऽभयो व्रतायानुजक्षे राज्ञा प्रमोदतः ||१०|| राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ॥११॥
संतोषमेवमभयः सुखदं दधानः सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोष मेवमपरोऽप्यवलम्बमान - स्तान्युत्तरोत्तरमुखानि नरो लभेत ॥ २१२ ॥ ॥ इति श्री अभयराजर्षिकथानकम् ॥११४॥
प्रकृतं सन्तोषमेव स्तौति
OKEY OR FORC
'द्वितीय
प्रकाशः
ખારા