________________
योग
शास्त्रम्
॥३०५ ॥
06 OCE
तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं ह्रियेनेनेत्युदभुवदनोऽरटत् ॥ ८१ ॥ सप्तमेऽह्नि नृपोऽप्येकस्तत्र प्रच्छन्न आययौ । कामान्धः सिन्धुर इव बद्धश्वाभयपुरुषैः ॥ ८२ ॥ नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्य्यङ्केन समं जड़े पुरान्तः सन् दिवा ॥८३॥ क्रोशे क्रोशे पुरे मुक्त रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत्प्रद्यो तमभयोऽभयः ||८४|| ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खड्गमाकृष्य तं प्रति श्रेणिको नृपः ||८५|| ततोऽभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा ॥ ८६ ॥ अन्यदा गणभृद्देवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोऽपि विरक्तः काष्ठभारिकः ॥ ८७ ॥ विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभर्त्स्यतोपाहस्यतागर्ह्यतापि पदे पदे ॥८८॥ नावज्ञां सोडुमीशोऽत्र विहरामि तदन्यतः इति व्यज्ञपयत् स श्री धर्मस्वामिनं ततः ॥ ८९ ॥ सुधर्मस्वामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्छयताभयः पृच्छन् ज्ञापितस्तच कारणम् ||१०|| दिनमेकं प्रतीक्षध्वमूर्ध्व यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ॥ ९१ ॥ सोऽथ राजकुलात्कृष्ट्वा नकोटित्रयीं बहिः । दास्याम्येतामेत लोकाः पटहेनेत्यघोषयत् ॥ ९२ ॥ ततथेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥९३॥ लोकोत्तरमिदं लोकः स्वामिन ! किं कर्तुमीश्वरः । इति तेष्वाभाषमाणेष्वभयोऽपीत्यभाषत ॥९४॥ यदि वो नेदृशः कश्चिद्रत्नकोटीत्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः || ९५|| सम्यगीदृगयं साधुः पात्रं दानस्य युज्यते । मुधाऽसौ जहसेऽस्माभिरिति तैर्जगदेऽभयः ॥ ९६ ॥ अस्य भसपहासादि न कर्त्तव्यमतः परम् आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥९७॥ एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो
SOOR
द्वितीय प्रकाशः
॥२९३॥