________________
योग
शास्त्रम्
upol
अभाषताभंयोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ।। ६५ ।। यद्यद्भूतं शिवारूपेणोत्तिष्ठत्यथ वासते । तस्य तस्य मुखे देव्या क्षेप्यः क्रूरवलिः स्वयम् ||६६ || विदधे शिवया तच्चाशिवशान्तिर्बभूव च । तुर्ये चादाद्वरं राजा ययाचे चाभयोऽप्यदः ॥ ६७ ॥ स्थितो नलगिरी मेण्ठीभूते त्वयि शिवाङ्कगः । अहं विशाम्यग्निभीरुरथदारुकृतां चिताम् ॥ ६८ ॥ ततो विषण्णः प्रद्योतो वरान् दातुमशक्नुवन् । विससर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः || ६९ || १ आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्ललादहम् । दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ॥ ७० ॥ ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे । कथमप्यवतस्थे च कश्चित्कालं महामतिः ॥७१॥ गृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीद्गृहम् ॥७२ || प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥७३॥ प्रद्योतेन गृहे गत्वा रागिणा प्रेषिता ततः । दुतिकाऽनुनयन्त्याभ्यां क्रुद्धाभ्यामपहस्तिता ॥ ७४ ॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय च । ताभ्यां शनैः सरोषाभ्यामवामन्यत दृतिका ||७५|| तृतीयेऽप्यहि निर्वेदादेत्य ते याचितेऽनया । ऊचतुश्च सदाचारो भ्राता नावेष रक्षति ||७६ || ततो बहिर्गतेऽमुष्मिन् सप्तमेऽह्नि समागते । इहायातु नृपश्छन्नस्ततः सङ्गो भविष्यति ॥ ७७॥ ततोऽभयेन प्रद्योतसहगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥७८॥ ईदृशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥ ७९ ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायार्त इवाभयः ॥ ८० ॥ नीयमानश्च
(१) प्रतिज्ञां चकार ।
द्वितीय
प्रकाशः
॥३०४॥