________________
योग
शास्त्रम्
॥२०३॥
कञ्चित्पन्थानमुल्लङ्घय नदीरोधसि शम्बलम् । तद्भोक्तुमवतस्थेऽसौऽभूवन्नशकुनान्यथ ॥४८॥ शकुनज्ञस्तु सोऽभुक्त्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामस्तद्वारितः शकुनैः पुनः ॥ ४९|| दूरं गत्वा भोक्तुकामः शकुनैवरितः पुनः । ततो गत्वा स तत्सर्वं प्रद्योतस्य न्यवेदयत् ॥५०॥ ततो राज्ञा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाथेयभस्त्रा माघ्राय जगाद मतिमानिदम् ॥ ५१ ॥ अस्ति दृष्टिविषोऽत्राहिर्द्रव्यसंयोगसंम्भवः । असौ दग्धो भवेन्नूनं भवामुद्घाटचेद्यदि ॥ ५२ ॥ ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ॥५३॥ विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्न्यासी भूतोऽस्तु मे वरः ||५४॥ अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिर्भ्राम्यन् क्षोभयामास नागरान् ।। ५५ ।। असावant हस्ती व नेयः कथं न्विति । राज्ञा पृष्टोऽभयोऽशंसद्गायन्नुदयनो नृपः ॥ ५६ ॥ पुत्र्या वासवदया गान्धीत धृतः । जगावुदयनस्तत्र समं वासवदत्तया ॥५७॥ तद्गीताकर्णनाक्षिप्तो बद्धो नलगिरिः करी । पुनर्ददौ वरं राजा न्यासीचक्रेऽभयस्तथा ॥ ५८ ॥ अभूवन्त्यामन्येद्युर्निर्विच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाभोऽवदत् ॥ ५९ ॥ विषस्येव विषं वहनेर्वह्निरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत् प्रदीपनम् || ६० ॥ तत्तथा विदधे राज्ञाऽशाम्यतच्च प्रदीपनम् । तृतीयं च वरं सोऽदान्न्यासी चक्रेऽभयश्च तम् ||६१|| अशिवं महदन्येद्युरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥६२॥ आगच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्मान् जयति या दृष्ट्या कथनीया तु सा मम ॥ ६३ ॥ तथैव विदधे राज्ञा राज्ञ्योऽन्या विजिता दृशा । देव्या तु शिवया राजा कथितं चाभयाय तत् ॥ ६४ ॥
EXCO TO TO REETOORNO MORE
द्वितीय
प्रकाशः
॥३०३ ॥