________________
योग
शास्त्रम्
૫૦૨ા
चिन्तयन् । तां विसृज्याभयश्चैत्यं वन्दित्वा स्वगृहं ययौ ॥ ३० ॥ तां निमन्त्र्याभयः प्रातर्गृहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ॥ ३१॥ निमन्त्रितस्तयाऽन्येद्युर्मितीभूयाभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः १ ॥३२॥ तया च विविधैर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिश्रपानकानि च पायितः ||३३|| भुक्तोत्थितश्च तत्कालं सुष्वाप श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥३४॥ तं रथेन स्थाने स्थाने स्थापितैश्चापरै रथैः । अवन्तीं प्रापयामास दुर्लक्ष्यच्छद्मसद्म सा ||३५|| ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थानेऽन्वेषयन्तस्तत्रापीयुर्गवेषकाः || ३६ || किमिहाभय आयात इत्युक्ता तैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि ||३७|| वचनप्रत्ययात्तस्या अन्यत्रेयुर्गवेषकाः । स्थाने स्थाने स्थापिताश्चैः साऽप्यवन्तीं समाययौ ॥ ३८ ॥ सा प्रचण्डाऽभयं चण्डप्रद्योतस्यार्पयत्तत्तः । अभयाऽऽनयनो पायस्त्ररूपं च व्यजिज्ञपत् ||३९|| तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छद्मनाऽऽनयः ॥ ४० ॥ कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥४१॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि । यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्द्धते ||४२ || लज्जितः कुपितचाथ चण्डप्रद्योत भूपतिः । राजहंस मिवाक्षैप्सीदभयं काष्ठपारे ||४३|| अग्निभीरू रथो देवी शिवा नलगिरिः करी । लोहजङ्घो लेखबाहो राज्ये रत्नानि तस्य तु ||४४ || लोहजङ्कं नृपः प्रैषीभृगुकच्छे मुहुर्मुहुः । तद्गातागतसंक्लिष्टा स्तत्रत्या इत्यमन्त्रयन् ||४५ || आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृद्वयाहरत्यस्मान् हन्मः संप्रत्यमुं ततः ॥४६|| ते विमृश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत्समन्तादप्यपाहरन् ॥४७॥
द्वितीय प्रकाशः
॥३०२ ॥