________________
योगशास्त्रम्
द्वितीय प्रकाश
॥३०१॥
यिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषेधिकीत्रयम् ॥१३॥ मालवकैशिकीमुख्यभाषामधुरया गिरा । देवं वन्दितुमारेभे सपर्या विरचय्य सा ॥१४॥ तत्राभयकुमारोऽपि ययौ देवं विवन्दिषुः । आत्मतृतीयां तामग्रे वन्दमानां ददर्श च ॥१५।। देवदर्शनविघ्नोऽस्या मा भूत्प्रविशता मया । द्वार्यवेत्यभयस्तस्थौ मण्डपान्तविवेश न ॥ १६ ॥ प्रणिधानस्तुति कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदुत्तस्थुषी तावदभयोऽभ्याजगाम ताम् ॥१७॥ तादृशीं भावनां तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ॥१८॥ दिष्टया भद्रेऽधुना त्वाहासाधर्मिकसमागमः । साधर्मिकात्परो बन्धुर्न संसारे विवेकिनाम् ॥ १९ ॥ का त्वं किमागमः का वा वासभूमिरिमे च के। यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे ॥ २० ॥ व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा त्वहम् ॥ २१ ॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षे लते इव ॥२२॥ व्रतार्थमापपृच्छाते उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ।।२३।। मयाऽप्युक्ते ग्रहीष्यामि निर्वोराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु गृह्यतां तीर्थयात्रया ॥२४॥ व्रते हि भावतः पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्ययौ ॥२५|| अत्थेत्थमभयोऽवोचदतिथीभवताद्य नः आतिथेयं सतीर्थ्यानां तीर्था दप्यतिपावनम् ॥२६।। प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ॥२७॥ अथ तनिष्ठया हृष्टोऽभयस्तामवदत्पुनः । अवश्यं मम तत्प्रातरागन्तव्यं निकेतने ॥२८|| साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत्कथं सुधीः ? ॥२९॥ अस्त्विदानीमियं भूयः श्वो निमन्त्र्येति
॥३०