________________
योग शास्त्रम्
द्वितीय प्रकाश
॥३०॥
म्बन्धेनापि सर्वदा ॥९५॥ तदवन्तीश! वच्मि त्वामेकान्तहितकाक्षया। सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः ॥९६॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्त्तमात्मसात् । ते तानादाय बध्ध्वा त्वामर्पयिष्यन्ति मत्पितुः ॥९७॥ तदावासेषु दीनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ॥९८॥ विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ॥९९॥ नष्टे तत्र तु तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाधाददे सारं मगधेन्द्रः समन्ततः ॥ १०॥ नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरी ययौ ॥१॥ ये चतुर्दश भूपाला ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥ २ ॥ असंयतलुलत्केशैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यापुरुज्जयिनी पुरीम् ॥३॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोज्जयिनीपतिः॥४॥ कदाचिदचेऽवन्तीशो मध्येसभममर्षणः। योऽर्पयत्यभयं बध्ध्वा मम सम्पत्स्यते स किम् ॥५॥ पताकं हस्तमुत्क्षिप्य काऽप्येका गणिका ततः। व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ॥६॥ तामादिदेशावन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यर्थादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥७॥ सा च दध्यौ यदभयो नोपायैग्रह्यतेऽपरैः। धर्मच्छद्म तदादाय साधयामि समीहितम् ॥८॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ । ते तदैवार्पयद्राजा ददौ द्रव्यं च पुष्कलम् ॥९॥ कृतादराः प्रतिदिनमुपास्योपास्य संयताः । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः॥१०॥ तास्तिखोऽपि ततो जग्मुः श्रेणिकालङ्कृतं पुरम् । जगत्त्रयीं वश्चयितुं मायाया इव मूर्तयः॥११॥ बाह्योद्याने कृतावासा सा पणत्रीमतल्लिका । पत्तनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया ॥१२॥ सा विभूत्याऽतिशा
॥३००।