________________
योगशास्त्रम्
द्वितीय प्रकाशः
।
॥२९९॥
ततो नन्दा समानेतुममन्दानन्दकन्दलः । न्ययुक्त सर्वसामग्रीमग्रेकृत्य नृपोऽभयम् ॥७९॥ ततः स्वयमपि प्राज्योत्कण्ठोल्लिखितमानसः। नन्दामभिययौ राजा राजहंस इवाब्जिनीम् ॥८०॥ शिथिलीभूतवलयां कपोललुलितालकाम् । अनञ्जनाक्षी कबरीधारिणी मलिनांशुकाम् ॥८१॥ तनोस्तनिम्ना दधतीं द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥८२॥ (युग्मम् ) नन्दामानन्ध नृपतिर्नीत्वा च स्वं निकेतनम् । पट्टाराज्ञीपदेऽकार्षीत् सीतामिव रघूद्वहः ॥८३॥ भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाधान् भूभुजोऽभयः ॥८४॥ अन्यदोज्जयिनीपुर्याश्चण्डप्रद्योतभूपतिः। चलितः सर्वसामच्या रोधुं राजगृहं पुरम् ॥८५॥ प्रद्योतो बद्धमुकुटाश्चतुर्दश परे नृपाः। तत्रायान्तो जनैर्दष्टाः परमाधार्मिका इव ॥८६॥ पाट्पट(टैः)प्लुतैरश्वैः पाटयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ॥८७॥ किञ्चिच्च चिन्तयामास प्रद्योतोऽद्य समापतन् । क्रूरग्रह इव क्रुद्धः कार्यों हतबलः कथम् ? ॥८८॥ ततोऽभयकुमारस्यौत्पत्तिक्यादिधियां निधेः । नृपतिमुखमैक्षिष्ट सुधामधुरया दृशा ॥८९॥ यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनीशोऽद्य भूयायुद्धातिथिर्मम ॥९०॥ यदि वा बुद्धिसाध्येऽर्थे शखाशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तबुद्धिहि जयकामधुक ॥९१॥ अथ बाह्येऽरिसैन्यानामावासस्थानभूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ।।९२॥ प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्टचत भूगोलः पयोधिसलिलैरिव ॥९३।। अथेत्थं प्रेषयामास लेखं प्रद्योतभृपतेः। अभयो गुप्तपुरुषैः परुषेतरभाषिभिः ॥९४॥ शिवादेवीचेल्लणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीस(१) गच्छद्भिः