________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२९८॥
कर्षेत् स इमामूमिकामपि ॥६॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा, किमेतदपि दुष्करम् ॥६२॥ तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः। समये मुखरागो हि नृणामाख्याति पौरुषम् ॥६३॥ ऊचुश्च ते महाभाग! त्वं गृहाणेत्यमूमिकाम् । ऊर्मिकाकर्षणपणां धुर्यतां चैषु मन्त्रिषु ।।६४॥ ततोऽभयकुमारस्तामूमिकां कूपमध्यगाम् । आगोमयपिण्डेन निजधानोपरि स्थितः ॥६५॥ प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥६६॥ नन्दाया नन्दनः सद्यः कारयित्वाऽय सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् ॥६७॥ तद्गोमयं श्रेणिकसः करेण तरसाऽऽददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ॥६८॥ तस्मिन् स्वरूपे चारक्षैर्विज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावात्मसन्निधौ ॥६९।। अभयं श्रेणिकः पुत्रप्रतिपत्त्याऽथ सस्वजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः॥७०॥ कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा। वेणातटादागतोऽहमिति चाभिदधेऽभयः॥७॥ राजाऽपृच्छद्भद्रमुख ! किं भद्र इति विश्रतः। श्रेष्ठी तत्रास्ति तस्यापि नन्दानाम्नी च नन्दना ।।७२॥ अस्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः। ऊचे नन्दोदरिण्यासीत्किमपत्यमजायत ? ॥७॥ अथाख्यत्कातदन्तांशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ।।७४॥ किं रूपः किं गुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाहं स्वामिन्नस्मीति चिन्त्यताम् ।।७५॥ परिष्वज्याङ्कमारोप्य समाघ्राय च मूर्द्धनि । स्नेहात् स्नपयितुमिव सिषेच नयनाम्बुभिः।७६॥ कुशलं वत्स ! ते मातुरिति पृष्ठे महीभूजा । इति विज्ञपयामास बद्धाञ्जलि पुटोभयः ॥७७॥ अनुस्मरन्ती भृङ्गीव त्वत्पादाम्भोजसङ्गमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति॥७८॥
॥२९८॥