________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२९॥
विज्ञपय्याथ राजानं तत्पित्राऽपूरि दोहदः । पूर्णे काले च साऽस्त प्राची रविमिवार्भकम् ॥४४॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकराभयकुमार इति मातामहोऽभिधाम् ॥४५॥ स मावृधे विद्या निरवद्याः पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च।।४६।। सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याहो पिता विज्ञायते न हि ॥४७॥ उचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुःप्रत्युवाचेति सोऽभयम् ॥४८॥ नन्दा प्रत्यभयोऽप्यूचे मातः! को मे पितेत्यथ । अयं तव पिता भद्रः श्रेष्ठी नन्देत्यचीकथत् ॥४९॥ भद्रस्तव पिता शंस मदीयं पितरं ननु। पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ॥५०॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमीयुः केचिदौष्ट्रिकाः॥५१॥ रहः स किश्चिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥५२॥ स यान् किश्चिज्जजल्प त्वामिति पृष्टाऽभयेन सा । अक्षराण्यर्पितान्यतानीति पत्रमदर्शयत् ॥५३॥ तद्विभाब्याभयः प्रीतोऽब्रवीन्मम पिता नृपः। पुरे राजगृहे तत्र गच्छामो ननु संप्रति ॥५४॥ आपृच्छच श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः। नान्देयो नन्दया सार्द्ध ययौ राजगृहं पुरम् ॥५५॥ मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ॥५६॥ इतश्च मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥५७॥ मन्त्रिपञ्चशतीं पूर्णां कर्तुं नरपतिस्ततः । लोके गवेषयामास कश्चिदुत्कृष्टपूरुषम् ॥५८॥ ततश्च तत्परीक्षार्थ शुष्ककूपे निजोमिकाम् । प्रचिक्षेप क्षितिपतिर्लोकानित्यादिदेश च ॥५९॥ आदास्यति करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीता मदीया मन्त्रिधुर्यता ॥६०॥ तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । ताराः करेण य:
२९