________________
योग
शास्त्रम् ॥२९६ ॥
माहात्म्याच्छ्रेष्ठी भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्य्यो ननु श्रियः ||२६|| अद्यावितथ पुण्यस्य कस्यातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ||२७|| नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठि चेतस्यचिन्तयत् ॥ २८ ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम असावलसमध्येन ननु गङ्गा समागता || २९ || संवृत्याहं ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ||३०|| एवं च तिष्ठस्तद्गेहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दां नाम्नेत्ययाच्यत ॥३१॥ ममाज्ञातकुलस्यापि कथं दत्से सुतामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ||३२|| ततस्तस्योपरोधेनोदधेरिव सुतां हरिः । श्रेणिकः पर्यणैषीत्तां भवद्धबलमङ्गलम् ||३३|| भुञ्जानो विविधान् भोगान् सह वल्लभया तया । अतिष्ठच्छ्रेणिकस्तत्र निकुञ्ज इव कुञ्जरः ||३४|| श्रेणिकस्य स्वरूपं तद्विवेदाशु प्रसेनजित् । सहाखाक्षा हि राजानो भवन्ति चरलोचनैः ||३५|| उग्रं प्रसेनजिद्रोगं प्रापाथान्तं विदन्निजम् । सुतं श्रेणिकमानेतुं शीघ्रानादिक्षदौष्ट्रिकान् ॥३६॥ औष्ट्रिकेभ्यो ज्ञातयाऽऽत्तेः पितुरत्यर्त्तिवर्त्तिया । नन्दां संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः॥३७॥ वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वानमन्त्रप्रतिमान्यक्षराणीति चार्पयत् ॥ ३८ ॥ माऽन्या तातस्य रोगार्त्तेर्मदर्त्तिर्भूदिति द्रुतम् । उष्ट्री श्रेणिक आरुह्य ययौ राजगृहं पुरम् ||३९|| तं दृष्ट्वा मुदीतो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिव्चद्विमलैः सुवर्णकलशाम्बुभिः ||४०|| राजाऽपि संस्मरन् पार्श्व जिनं पञ्चनमस्क्रियाम् । चतुःशरणमापन्नो विपद्य त्रिदिवं ययौ ॥ ४१ ॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन सा गुर्विणी मुक्ता गर्भ नन्दाऽपि दुर्बहम् ॥४२॥ तस्या दोहद इत्यासीद्गजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ॥४३॥
द्वितीय
प्रकाशः
||२९६॥