________________
योगशास्त्रम्
॥२९५॥
द्वितीय प्रकाशा
धिष्यत्यरीनयम् । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥९॥ राजा पुनः परीक्षार्थ सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥१०॥ इमां मुद्रामभञ्जन्तो भुञ्जीवं मोदकानमून् । पयः पिबत मा कुढ़वं छिद्रमित्यादिशन्नृपः ॥११॥ विना श्रेणिकमेतेषां कोऽपि नामुक्त नापिबत् । बुद्धिसाध्येषु कार्येषु कुर्युरूजस्विनोऽपि किम् ? ॥१२॥ चलयित्वा चलयित्वा श्रेणिकोऽथ करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥१३॥ रौप्यशुक्क्या घटस्याघो गलद्वार्बिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाधं सुधियां धियः ॥१४॥ तत्प्रेक्ष्य नृपतिः प्रीतो जातेऽन्येयुः प्रदीपने । यो यद्गृह्णाति मद्गेहात्तत्तस्येत्यादिशत्सुतान् ॥१५॥ सर्वे गृहीत्वा रत्नानि कुमारा निर्ययुस्ततः । आदाय भम्भां त्वरितः श्रेणिकस्तु विनिर्ययौ ॥१६॥ किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्न भम्भेयं प्रथमं पृथिवीभुजाम् ॥१७॥ अस्याः शब्देन भूपानां दिग्यात्रामङ्गलं भवेत् । रक्षणीया क्षमापालैः स्वामिस्तदियमात्मवत् ॥१८॥ ततः परीक्षानिर्वाहज्ञातबुद्धिर्महीपतिः । तस्य प्रीतो ददौ भम्भासार इत्यपराभिधाम् ॥१९॥ राज्याईमानिनो मैन राज्याई सूनवोऽपरे ज्ञासिषुरित्यवाज्ञासीच्छ्रेणिकं पृथिवीपतिः ॥२०॥ पृथक् पृथक् कुमाराणां ददौ देशाचरेश्वरः । न किश्चिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥२१॥ ततोऽभिमानी स्वपुरात्कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छत्तर्ण वेणातटं पुरम् ।।२२।। तत्र च प्रविशन् भद्राभिधस्य श्रेष्ठिनोऽथ सः। कर्म लाभोदयं मृर्तमिवोपाविशदापणे ॥२३॥ तदा च नगरे तस्मिन विपुलः कश्चिदुत्सवः। नव्यदिव्यदुकूलाङ्गरागपौराऽऽकुलोऽभवत् ॥२४॥ प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयद्वध्वाऽस्मै पुटीपुटिकादिकम् ॥२५॥ द्रव्यं कुमार
॥२९५॥