________________
योगशास्त्रम्
द्वितीय प्रकाशा
લા
यस्यास्तां तथाविधाम् शमसाम्राज्यसंपदं स्वाधीनां परित्यज्य मुखार्थिनः परिग्रहलवलुब्धा मूलमुच्छेद्य लाभमिच्छन्तीत्यर्थः ॥११३॥
इदानीमसन्तोषफलोपदर्शनपूर्वकं सन्तोषफलमाहअसन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः। जन्तोः सन्तोषभाजो यदभयस्येव जायते ॥११४॥
सन्तोषरहितस्य तत्फलभूतं सौख्यं न शक्रस्य देवराजस्य, नापि चक्रिणो मनुजराजस्य, यत्सौख्यं सन्तोषवतो जन्मिनो जायते । कस्येवेत्याह-अभयस्य अभयकुमारस्य श्रेणिकराजपुत्रस्य । स हि पित्रोपनीतमपि राज्यं परिहत्य शमसाम्राज्यसम्पदं परिगृहीतवानिति ।
कथानकं च सम्प्रदायगम्यम् । स चायम्___ अस्तीह भरतक्षेत्रे केदारमिव सुन्दरम् । विशालशालिकमलं नाम्ना राजगृहं पुरम् ॥१॥ तत्र प्रसेनजिनाम नामिताशेषभूपतिः। पतिर्वारामिवालब्धमध्योऽभूत्पृथिवीपतिः ॥२॥ श्रीमत्पाजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणुव्रतधरोऽभवत् ॥३॥ ओजसा तेजसा कान्त्या जितामरकुमारकाः । कुमारास्तस्य बहवो बभूवुः श्रेणिकादयः ॥४॥ को राज्ययोग्य इत्येषां परीक्षार्थ महीपतिः । एकत्र पायसस्थालान्यशनायैकदाऽऽर्पयत् ।।५॥ ततो भोक्त्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ॥६।। कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥७॥ सोऽन्यस्थालात्पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् ॥८॥ येन केनाप्युपायेन निषे
મારા