________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२९३॥
न्ति पोषिता एव ता नृपम् । वश्याऽपि न बनड्वाही दत्ते दुग्धमपोषिता ॥१८॥ सर्वदोषप्रसूर्लोभो लोभः सर्वगुणापहः । लोभस्तस्यज्यतामेतत्त्वद्धितो वक्ति मत्प्रभुः ॥१९॥ नन्दोऽपि तदगिरा दावदग्धभूरिव वारिणा । अत्युष्णवाष्पममुचद् दग्धुकाम इवाशु तम् ॥२०॥ राजदौवारिको जातुन वध्य इति नन्दराट् । उत्थाय गर्भवेश्मान्तः सशिरोऽतिरिवाविशत् ॥२१॥ नासौ सदुपदेशानां जवासक इवाम्भसाम् । योग्य इत्यामृशन् दुतोऽप्यगात स्वस्वामिनोऽन्तिकम् ॥२२।। नन्दोऽप्यन्यायपापोत्थैर्वेदनादानदारुणैः । रोगैरिहापि संप्राप्तः परमाधार्मिकैरिव ॥२३॥ वेदनाभिर्दारुणाभिः पीडद्यमानो यथा यथा । नन्दश्चक्रन्द लोकोऽभूज्जातानन्दस्तथा तथा ॥२४॥ पच्यमानो भृज्यमानो दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि सर्व तादृक्षपाप्मनः ॥२५॥ ये भूतले विनिहिता गिरिवच्च कूटीभूताश्च येऽद्य मम काञ्चनराशयस्ते । कस्य स्युरित्यभिगृणन्नवितृप्त एव, मृत्वा निरन्तभवदुःखमवाप नन्दः ॥२६॥
इति नन्दकथानकम् ॥११२॥ ___ अपि च योगिनामपि परिग्रहमुपगृह्णतां लाभमिच्छता मूलक्षतिरायातेत्याहतपाश्रुतपरीवारां शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥११३॥
योगो रत्नत्रयप्राप्तिस्तद्वन्तो योगिनस्तेऽपि, आसतां पृथग्जनाः, परिग्रह एव ग्रहस्त मस्ताः पिशाचकिन इव शमसाम्राज्यसंपदं स्वाधीनामपि त्यजेयुः, शमस्य वितृष्णतायाः साम्राज्यं परमैश्वर्य, तद्रूपा सम्पत् ताम् । साम्राज्यं च नैकाकिनो भवतीत्याह-तप:श्रुतपरीवारां तपश्चारित्रं, श्रुतं सम्यग्ज्ञानं, ते एव परीवारः परिच्छदो
॥२९॥