________________
योग
द्वितीय प्रकाशा
शास्त्रम् ॥२९२॥
प्राच्यां महेन्द्रनगरीप्रतिबिम्बमिवोच्चकैः । आख्यया पाटलीपुत्रमित्यस्ति प्रवरं पुरम् ॥१॥ आसीत्तत्रातिसुत्रामा शत्रुवर्गविसूत्रणे। त्रिखण्डवसुधाधीशो नन्दो नाम नरेश्वरः ॥२॥ सोऽकराणां करं चक्रे सकराणां महाकरम् । महाकराणामपि च किश्चिच्चक्रे करान्तरम् ॥३॥ यं कश्चिदोषमुत्पाद्य धनिभ्यो धनमग्रहीत् । छलं वहति भूपानां हलं नेति नयं वदन् ॥४॥ सर्वोपायैईन लोकानिष्कृपः स उपाददे । अपामब्धिर्नपोऽर्थानां पात्रं नान्य इति ब्रुवन् ॥५॥ तथाऽर्थ सोऽग्रहील्लोकाल्लोकोऽभूनिर्धनो यथा । भूमावूर्णायुचीयां न खलु प्राप्यते तृणम् ॥६॥ हिरण्यनाणकाऽऽख्याऽपि तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोऽपि चर्मणो नाणकैस्तदा ॥७॥ पाखण्डिनोऽपि वेश्या अप्यसाबर्थमदण्डयत् । हुताशनः सर्वभक्षी न हि किश्चिद्विमुञ्चति ॥८॥ श्रीवीरमोक्षादे कोनविशत्यब्दशतेषु यः। साग्रेषु भावी किं सोऽयं कल्कीति जनवागभूत् ॥९॥ आक्रोशान् पश्यतोऽप्यस्य भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥१०॥ स स्वणः पर्वतांश्चक्रे पूरयामास चावटान् । भाण्डागाराणि चापूरि पूर्णकामस्तु नाभवत् ॥११॥ आकर्ण्य तत्तथाऽयोध्यानाथेनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी दूतः प्रेषित आगमत् ॥१२॥ सर्वतोऽप्याहृतश्रीकं निःश्रीकं तं तथापि हि । दूतो भूपमथापश्यन्नत्वा चोपाविशत्पुरः ॥१३॥ सोऽनुज्ञातो नृपेणोचे श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देवेन न हिताश्चाटुभाषिणः ॥१४॥ अवर्णवादो देवस्य यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य न निर्मूला जनश्रुतिः ॥१५॥ अन्यायतोऽर्थलेशोऽपि राज्ञः सर्वयशश्छिदे । अप्येकं तुम्बिकाबीजं गुडभारान् विनाशयेत् ॥१६॥ आत्मभूताः प्रजा राज्ञो राजा न च्छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं निजमश्नन्ति जातुचित ॥१७॥ प्रजाः पुषाण पुष्ण
॥२९॥