________________
योगशाखम्
द्वितीय प्रकाशा
॥२९॥
अतृप्तो दधिपयसोः सुराया इव दुर्मदः॥६॥ तस्याभवदथाजीर्णमध ऊवं सरद्रसम् । प्रदीपनान्तःपतितस्येव दाहो महानभूत् ॥७॥ हा धेनवो हा नवतर्णकाच, हा 'शाकरा वः क कदा च लप्स्ये । स गोधनैरेवमतृप्त एव, मृत्वाऽथ तिर्यग्गतिमाससाद ॥८॥ इति कुचिकर्णकथानकम् । __ श्रेष्ठयासीत्तिलको नाम पुरेऽचलपुरे पुरा । असौ पुरेषु ग्रामेषु चाकरोद्धान्यसंग्रहम् ॥१॥ माषमुद्रगतिलब्रीहिगोधूमचणकादिकम् । ददौ सार्दिकया धान्यं काले सार्द्ध च सोऽग्रहीत् ॥२॥ धान्यैर्धान्यं धनैर्धान्यं धान्य २जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं ध्यायन् धान्यं स तत्त्ववत् ॥३॥ दुर्भिक्षकाले धान्येभ्यः प्रत्युपातमहाधनैः । बभार परितो धान्यरिवासौ धान्यकोष्ठकान् ॥४॥ पुनः सुभिक्षे धान्यं स क्रीत्वा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र तत्रासक्ति न मुञ्चति ॥५॥ कीटकोटिवधं नैषोऽजीगणत् कणसंग्रहे। पीडां पश्चेन्द्रियाणामप्यतिभाराधिरोपणात् ॥६॥ नैमित्तः कोऽपि तस्याख्यद्भाविदुर्भिक्षमैषमः । सर्वस्वेनाथ सोऽक्रीणाकणान् पुन रतृप्तिकः ॥७॥ वृद्धयाऽपि द्रव्यमाकृष्याग्रहीद्धान्यमनेकधा । स्थानाभावे गृहेऽक्षेप्सीत् किं न कुर्वीत लोभवान् ॥८॥ असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्यैष्यतो मार्गमीक्षाञ्चक्रे दिने दिने ॥९॥ अथ वर्षाप्रवेशेऽपि ववर्षोंपेत्य सर्वतः। धारासारैर्घनस्तस्य हृदयं दारयन्निव ॥१०॥ गोधूममुद्गकलमाचणका मकुष्टा, मापास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संप्रति हहेति स तैरतृप्तो, हृत्स्फोटजातमरणानरकं प्रपेदे ॥११॥
इति तिलक)ष्टिकथानकम् ॥ (१) वृषभाः (२) जीवा गवादयः त एव धनानि तैः।