________________
योग
शास्त्रम्
॥२९०॥
विप्रोऽप्यूचे सत्यमेतत्तथाऽप्येको हि मे सुतः । रक्षणीयस्त्वया दीनानाथत्राणं सतां व्रतम् ॥३९॥ अथोचे चक्रवत्वं हो ब्राह्मण ! मा मुहः । शरणं मरणात हि भववैराग्यभावना ॥४०॥ व्याजहार द्विजोऽप्येवं यद्येवं साधु बुद्धयसे । महीश ! मा मुहः षष्टिसहस्रसुतमृत्युना ॥ ४१ ॥ ततः स यावद्भूपो हा किमेतदित्यचिन्त यत् । तावत्संकेतिताः सैन्याः सर्वमाख्यन्नुपेत्य ते ||४२ || उदन्तेन ततस्तेन दारुणेनाथ मूच्छितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ||४३|| लब्धसंज्ञस्ततो राजा रुदित्वा जनवत्क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥ ४४ ॥ अन्वयं मण्डयिष्यन्ति प्रीणयिष्यन्ति मां सुताः । इत्याशा धिग्ममासारं संसारं जानतोऽप्यभूत् ||४५ || द्वित्रैखिचतुरैः पञ्चषैर्वाऽन्येषां भवेत्कथम् । पुत्रैस्तृप्तिरियन्मात्रैरपि यन्मे बभूव न || ४६ || सिं कथममी कुर्युस्तावन्तोऽपि ममात्मजाः । ईदृग्गतिमकाण्डेऽयुरतृप्ताः प्राणितस्य ते ||४७|| इत्थं विचिन्त्याथ सुतैरतृप्तिकः, स तत्क्षये जहनुसृतं भगीरथम् । राज्ये निवेश्याजितनाथसन्निधौ, प्रव्रज्य वब्राज तदक्षयं पदम् ||४८ ॥ ॥ इति सगरचक्रिकथानकम् ॥
ग्रामः सुघोषो नामाऽभून्मध्ये मगधनीवृतः । कुचिकर्णाभिधानश्च ग्रामणीस्तत्र विश्रुतः । ॥१॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् । बिन्दुना बिन्दुना हन्त म्रियते हि सरोवरम् ||२|| गोपालानां पालनाय सोऽर्पयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः || ३|| कुचिकर्णो विभज्येता आर्पयत् कस्यचित् सिताः। कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् ॥ ४ ॥ पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुञ्जानो दधिपयसी सोऽवसत्तेषु च क्रमात् ॥५॥ अन्वहं वर्द्धयामास गोष्ठे गोष्ठे स गोधनम् ।
द्वितीय प्रकाशः
॥२९० ॥