________________
पौगशास्त्रम् ॥२८९॥
जह्नुरूचे मयाऽत्रैत्य चैत्यं त्रातुमदः कृतम् । युष्मद्भवनभङ्गोऽभूद्यदज्ञानात्स सह्यताम् ॥२२॥ अज्ञानकृतमागोऽदः सोढं ते मा कृथाः पुनः । इत्युदीर्य निजं धाम जगाम ज्वलनप्रभः ||२३|| सानुजोऽचिन्तयज्जहुः कृतेय परिखा परम् । परिपूरिष्यते पांशुपूरैः कालेन गच्छता ||२४|| ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद्भृशम् । उपद्रुतानि ततोयैः पुनर्वेश्मानि भोगिनाम् ||२५|| क्रुद्धोऽथैत्य समं नागकुमारैर्ज्वलनप्रभः । तान् दृष्ट्वा भस्मसाच्चक्रे दवानल इव द्रुमान् ||२६|| धिग्धिग्नः स्वामिनः प्लुष्टाः क्लीबानामिव पश्यताम् । द्वियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ||२७|| स्वं मुखं दर्शयिष्यामो वक्ष्यामो ऽदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् द्विजः ||२८|| कथयिष्याम्यदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवद्यं वो मा भूत व्याकुला ननु ॥ २९ ॥ इत्युक्त्वा मृतकं कञ्चिदादायानाथमभ्यगात् । राजद्वारे मृतापत्य इव स व्यलपत्ततः ॥ ३०॥ राज्ञाऽप्रच्छि ततोऽवादीदयमेकः सुतो मम । दष्टः सर्पेण निश्रेष्टस्तदेतो जीवयत्वमुम् ॥३१॥ अथादिष्टैर्नरेद्रेणनरेन्द्रैर्मन्त्रकौशलम् । निजं प्रयुक्तं तत्राभूत्तद्भस्मनि हुतोपमम् ||३२|| मृतो जीवयितुं शक्यो नायं तावद्विजोऽप्ययम् । कथं नु च्छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ||३३|| यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्व ततोऽधुना । भृशमानीयतां रक्षा जीवयामस्तया त्वमुम् ||३४|| ततो द्वाःस्थैनृपादेशात्पूर्या ग्रामेषु चेक्षितम् । गृहं न दृष्ट तत्किञ्चिन्मृतो यत्र न कश्चन ||३५|| राजाऽप्यूचे मदीयेऽपि कुले कुलकरा मृताः । भगवानृषभस्वामी भरतच क्रवपि ||३६|| राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केऽपि शिवं केऽपि दिवं ययुः ||३७|| जितशत्रुः शिवं प्राप सुमित्रविदिवं ततः । सर्वसाधारणं मृत्युं स्वसूनोः सहसे न किम् ॥३८॥
द्वितीय
प्रकाशः
॥२८९ ॥