________________
योग
शास्त्रम् ૫૨૮ના
राजाऽभूदजितस्वामी सागरो युवराट् पुनः || ३|| प्रवत्राजाजितस्वामी गते काले कियत्यपि । राजाऽभूत्सगरश्चक्रवर्त्ती ऋषभसूनुवत् ||४|| अथ षष्टिसहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा इव महातरोः ||५|| ज्येष्ठो जहूनुः कुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोषितोदादेवतेव पिता वरम् || ६ || त्वत्प्रासादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वाञ्छामीति जनुरयाचत ||७|| तद्दत्त्वा सगरेणापि विसृष्टः प्राचलत्ततः जनुर्हतसहस्रांशुः सहस्त्रैश्छत्रमण्डलैः ||८|| ऋद्धया महत्या भक्त्या चाच्चेत्यानि पदे पदे । सोऽर्चयन् विचरन् यावष्टापदं क्रमात् ||९|| तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम् । आरोहत्सह सोदर्यैर्जहूनुर्मितपरिच्छदः ॥ १० ॥ तत्रैकयोजनायाममर्द्धयोजनविस्तृतम् । त्रिगन्यूत्युन्नतं चैत्यं चतुर्द्वारं विवेश सः || ११|| विम्बानि स्वस्वसंस्थानमानवर्णानि तत्र सः अर्हतामृषभादीनां यथावत्पर्यपूजयत् ॥१२॥ ववन्दे भरत भ्रातृशतस्तूपांश्च पावनान्। किञ्चिद्विचिन्त्य श्रद्धालुरुच्चैरेवमुवाच च ॥ १३ ॥ अष्टापदसमं स्थानं मन्ये क्वापि न विद्यते । कारयामो वयं यत्र चैत्यमेतदिवापरम् ||१४|| मुक्तोऽपि भरतं भुक्ते भरतश्चक्रवर्त्यहो । शैले भरतसारेऽस्मि चैत्यव्याजादवस्थितः । ॥१५॥ एतदेव कृतं चैत्यमस्माभिश्चेद्विधीयते । भविष्यत्पार्थिवैरस्य लुप्यमानस्य रक्षणम् ||१६|| ततः सुरसहस्राधिष्ठितमादाय पाणिना । स दण्डं भ्रमयामास परितोऽष्टापदाचलम् ॥१७॥ चेले योजनसहखं दीर्णा कूष्माण्डवमही । भ्राम्यता तेन भिन्नानि नागानां भुवनानि च ॥ १८॥ तैर्भीतैः शरणं भेजे स्वस्वामी ज्वलनप्रभः स ज्ञात्वाऽवधिनोपेत्य जनुमित्यब्रवीत् क्रुधा ॥ १९ ॥ अनन्तजन्तु निर्घातकारणं किमकारणं । भवद्भिर्विदधे मत्तैर्दारुणं भूमिदारणम् ॥२०॥ अजितस्वामिभ्रातृव्यैः पुत्रैः सगरचक्रिणः । किमेतत्क्रियते पापमरे रे ! कुलपांसनाः । ॥ २१ ॥
I
द्वितीय
प्रकाशः
ગાસ્ટા