________________
पोगशास्त्रम्
॥२८॥
सङ्गान्वन्त्यसन्तोऽपि रागद्वेषादयो द्विषः। मुनेरपि चलेच्चेतो यत्तेनान्दोलितात्मनः॥१०९॥ ||
द्वितीय सगात्परिग्रहादेतोभवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्वेषप्रभृतयः शत्रवः ।
प्रकाशः सङ्गवतो हि तन्निबन्धनो रागः प्रादुर्भवति । सङ्गप्रतिपन्थिषु च द्वेषः, एवं मोहभयादयो वधबन्धादयो नरक पातादयश्च द्रष्टव्याः । तदिदं पर्वतस्थूलत्वं दोषाणाम् । कथमसन्तोऽपि रागादयो भवन्तीति ? उच्यते-यत् यस्मान्मुनेरपि आस्तामन्यस्य चलेत प्रशमावस्थायाश्च्यवेत् चेतो मनः तेन सङ्गेन आन्दोलितात्मनः अस्थिरीकृतात्मनः मुनिरपि हि सङ्गानङ्गीकुर्वन्मुनित्वाद भ्रश्यत्येव । यदाहछेओ' मेओ वसणं आयासकिलेसभयविवागो अ। मरणं धम्मभंसो अरई अत्थाओ सव्वाई ॥१॥ दोससयमूलजालं पुन्वरिसिविवज्जियं जई वंतं । अत्यं वहसि अणत्थं कीस निरत्थं तवं चरसि ॥२॥ वहबंधणमारणसेहणाओ काओ परिग्गहे णत्थि । तं जइ परिग्गहो च्चिय जइधम्मो तो णणु पवंचो॥३॥१०९॥
सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणाभिसंबध्नातिसंसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥११०॥ (१) छेदो भेदो व्यसनं आयासक्लेशभयविपाकाश्च । मरणं धर्मभ्रंशः अरतिरर्थात् सर्वाणि ॥१॥ (२) दोषशतमूलजालं पूर्वर्षिविवर्जितं यदि वान्तम् । अर्थ वहसि अनर्थ कस्माभिरर्थे तपश्चरसि ॥२॥ (३) वधबन्धनमारणसेधनाः काः परिग्रहे न सन्ति । तद् यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपञ्चः ॥३॥
॥२८५॥