________________
योगशास्त्रम् ॥२८॥
१साना:
आरम्भाः प्राण्युपमर्दादयस्ते संसारस्य मूलम्, एतदविवादसिद्धं, ततः किं तेषामारम्भाणां हेतुः कारणं ?
द्वितीय परिग्रहः, यत एवं तस्मादुपासकः साधुपासकः परिग्रहं धनधान्यादिकमल्पमल्पं नियतपरिमाणं कुर्यात् ॥११०॥
प्रकाशा ___ पुनरपि सिंहावलोकितेन परिग्रहदोषानाह-- मुष्णन्ति विषयस्तेना दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः सङ्गैरङ्गीकृतं नरम् ॥१११ ।।
सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकृतं यथा बहुपरिग्रहं कान्तारगत पुरुषं चौरा मुष्णन्ति तथा संसारकान्तारगतं विषयाः शब्दादयः संयमसर्वस्वापहारेण मुष्णन्ति निदनी कुर्वन्ति । यथा वा बहुपरिग्रहं नष्टुमशक्नुवन्तं दीप्तो दवाग्निर्दहति तथा संसारकान्तारगतं मन्मथाग्निश्चिन्तादिना दशप्रकारेण विकारेण दहत्युपतापयति । यथा वा बहुपरिग्रहं कान्तारगत व्याधा लुब्धका धनशरीरलोभेन रुन्धन्ति पलायितुमपि न ददति तथा भवकान्तारगतं वनिताः कामिन्यो धनाथिन्यः शरीरभोगार्थिन्यश्च स्वातन्त्र्यवृत्तिनिषेधेन धन्ति । अपि च बहुनापि परिग्रहेण कासावतां न तृप्तिः सम्भवति अपि त्वसन्तोष एव वर्द्धते । यन्मुनयः
रसुवणरुप्पस्स य पव्वया भवे सिआ हु केलाससमा असङ्ख्या।
नरस्स लुद्धस्स न तेहि किचि इच्छा हु आगाससमा अणंतिआ ॥१॥ (१) सुवर्णरूप्यस्य च पर्वता भवे स्युः खलु कैलाससमा असायकाः । नरस्य लुब्धस्य न तैः किश्चित् इच्छा खलु आकाशसमाऽनन्तिका ॥१॥
॥२८६॥