________________
Planeounese
योगशास्त्रम्
द्वितीय प्रकाशा
॥२८॥
सामान्येन परिग्रहदोषानाहत्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुष्षन्ति परिग्रहे ॥१०॥
त्रसरेणवो गृहजालान्तःप्रविष्टसूर्यकिरणोपलक्ष्याः सूक्ष्मा द्रव्यविशेषास्तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, न हि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्धयति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्द्धहेतुत्वादोष एव । योऽपि जिनभवनविधानादिलक्षणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न स गुणः, किं तु परियहस्य सदुपयोगव्यावर्णन न तु तदर्थमेव परिग्रहधारण श्रेयः । यदाहु:
धर्मार्थ यस्य वित्तहा तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य दुरादस्पर्शनं वरम् ॥१॥ तथा१कंचणमणिसोवाणं थंभसहस्सोसियं सुवण्णतलं । जो कारिज जिणहरं तओ वि तवसंजमो अहिओ० ॥१॥
व्यतिरेकमाह-दोषास्तु दोषाः पुनः पर्वतस्यूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुष्षन्ति प्रादुर्भवन्ति ॥१०॥
दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपञ्चयति(१) काञ्चनमणिसोपानं स्तम्भसहस्रोच्छूितं सुवर्णतलम् । यः कारयेजिनगृहं ततोऽपि तपःसंयमोऽधिकः ॥१॥ (२) 'अणंतगुणो' इति प्रत्यन्तरे ० संबोधसत्तरिवृत्ती तुकंचणमणिसोवाणे थम्भसहस्ससिए सुवन्नतले । जो कारवेज जिणहरे तओवि तवसंजमो अणंतगुणो ति ॥ एवं पाठो दृश्यते ।
॥२८॥