________________
द्वितीय प्रकाशा
शास्त्रम्
॥२८॥
ग्राम गेहं च विशन् कर्म च नोकर्म छाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥१॥ तथा१ज पि वत्यं व पायं वा कंबलं पायपुंष्णं । तं पि संजमलज्जट्टा धारंति परिहरंति अ॥१॥ २न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वुत्तं महेसिणा ॥२॥
इति सर्वमवदातम् ॥१०६॥ प्रकारान्तरेण परिग्रह नियन्त्रणमावपरिग्रहमहत्त्वाद्धि मजत्येव भवोम्बुधौ । महापोत इव प्राणी त्यजेत्तस्मोतू परिग्रहम् ॥१०७॥
परिगृह्यत इति परिग्रहो धनधान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मज्जत्येव, अवश्यमेव मज्जति, प्राणी शरीरी, भवे संसारे क इव क ? अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव, यथा निरवधिधनधान्यादिभाराक्रान्तः पोतः समुद्रे मज्जति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमञ्जति । यदाहुः--
"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नरयाउयं अजति"। तथा बहारम्भपरिग्रहत्वं च नारकस्यायुष इति यस्मादेवं तस्मात्त्यजेनियन्त्रयेत् परिग्रहं धनधान्यादिरुपं मूळरुपं वा ॥१०७॥
(१) यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोग्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुजते च ॥१॥ (२) न स परिग्रह उक्तः ज्ञातपुत्रेण तायिना । मूर्छा परिग्रह उक्तः इत्युक्तं महर्षिणा ॥२॥ (१) महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कमर्जन्ति ।
॥२८३॥