________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२८॥
दुत्कर्षश्च हीनसंपदमसन्तुष्ट दुःखाकरोति । यदाह
असन्तोषवतां पुंसामपमानः पदे पदे । सन्तोषैश्वर्यसुखिनां दूरे दुर्जनभूमयः ॥१॥ ___ अविश्वासः खल्वपि दुःखकारणम्, अविश्वस्तो ह्यशङ्कनीयेभ्योऽपि शकमानः स्वधनस्य रक्षां कुर्वन्न कचिद्विश्वसिति । यदाह१उक्खणइ खणई निहणइ रत्तिं न सुअइ दिआ वि अ ससंको । लिंपइ ठवेइ सययं लंछियपडिलंछियं कुणइ ।। म परिगतश्चारम्भं प्राणातिपातादिकं प्रतिपद्यते। तथाहितनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्चश्च कूटसाक्षित्वदायी बहनृतं भाषते, बलप्रकर्षात्पथिकजनं मुष्णाति, खनति खात्रं, गृह्णाति रविन्द, धनलोभात् परदारानभिगच्छति, तथा सेवाकृषिपाशुपाल्यवाणिच्यादि च करोति । मम्मणवणिगिव नद्यादिषु प्रविश्य काष्ठान्याकर्षति । ननु दुःखकारणं मूर्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति केयं वाचो युक्तिः ? उक्तमत्र-मूर्छाकारणत्वात् परिग्रहोऽपि मृच्छेव, अथवा " मूर्छा परिग्रहः" इति सूत्रकारवचनात् मृच्छैव परिग्रह इति निश्चयनयमतेनोच्यते, मृच्छ मन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह___अपरिग्रह एव भवेद्वस्त्राभरणाचलङ्कृतोऽपि पुमान् । ममकारविहितः सति ममकारे सजवानमः॥१॥ तथा
(१) उत्खनति खनति निहन्ति रात्रिं न स्वपिति दिवाऽपि च सशकः । लिम्पति स्थापयति सततं लाग्छितप्रतिलाग्छितं करोति ॥१॥ (२) 'वन्द' इति प्रत्यन्तरपाठः साधीयान् ।
॥२८॥