________________
योग
शास्त्रम्
॥२८१ ॥
मोहान्धमानसः ||३३|| जटी मुण्डी शिखी मौनी नग्नो वल्की तपस्व्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मां न रोचते ||३४|| कण्डूयन् कच्छुरः कच्छू यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ॥३५॥ नाय्य यैरुपमीयन्ते काञ्चनप्रतिमादिभिः । आलिङ्गयालिङ्गत्य तान्येव किमु न तृप्यति ॥ ३६ ॥ यदेवाङ्गं कुत्सनीयं गोपनीयं च योषिताम् । तत्रैव हि जनो रज्येत् केनान्येन विरज्यताम् ||३७|| मोहादहह नारीणामङ्गर्मा 'सास्थिनिर्मितैः । चन्द्रेन्द्रीवरकुन्दादि सहक्षीकृत्य दुषितम् ||३८|| नारीं नितम्बजघनस्तनभूरिभारा-मारोप यन्त्युरसि मूढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां न हि शिलां निजकण्ठबद्धाम् ॥३६॥ भवोदन्वद्वेलां मदनमृगयुव्याधहरिणीं, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहुलपक्षान्तरजनीम्, विपत्खानिं नारीं परिहरत हे श्राद्धसुधियः ! ॥४०॥१०५॥
संप्रति मूर्च्छाफलमुपदर्शयंस्तनियन्त्रणारूपं पञ्चममणुव्रतमाह
असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात्परिग्रहनियन्त्रणम् ॥ १०६ ॥ दुःखकारणमित्यसन्तोषादिभिखिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि मूर्च्छाया गास्य फलत्वेन विज्ञाय मूर्च्छाहेतोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्जादिति योगः । तत्रासन्तोषस्तृप्त्यभावः, स दुःखकारणम् । मूर्च्छावान् हि बहुभिरपि धनैर्न संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंप(१) काम एव मृगयुः व्याधः तस्य व्याधे वेधने हरिणीम् ।
:: FOX
द्वितीय प्रकाशः
Au