________________
योगशास्त्रम्
૫૨૮૦ના
ङ्गनानां त्रिवलीतरङ्गैड्रियते जनः त्रिवलीछद्मना ह्येतन्ननु वैतरणीयम् ||१६|| स्मरार्त्त मज्जति मनः पुंसां स्त्रीनभिवापिषु । प्रमादेनापि किं नेदं साम्याम्भसि मुदास्पदे ||१७|| स्मरारोहणिनिःश्रेणीं स्त्रीणां रोमलतां विदुः नराः संसारकारायां न पुनर्लोहश्रृखलाम् ||१८|| जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥१९॥ भजते करभोरुणामूरूनल्पमतिर्नरः । अनूरुक्रियमाणं तैः सद्गतौ स्व न बुद्धयते ॥२०॥ स्त्रीणां पादैर्हन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ॥ २१॥ दर्शनात् स्पर्शनाच्छ्लेषाद् या हन्ति शमजीवितम् । हेयोग्रविषनागीव वनिता सा विवेकिभिः ॥२२॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगतिर्वर्जनीया नितम्बिनी ॥ २३ ॥ न प्रतिष्ठां न सौजन्यं न दानं न च गौरवम् । न च स्वान्यहितं वामाः पश्यन्ति मदनान्धला ः ||२४|| निरङ्कुशा नरे नारी तत्करोत्यसमञ्जसम् यत्क्रुद्धाः सिंहशार्दूलव्याला अपि न कुर्वते ||२५|| दूरतस्ताः परित्याज्याः प्रादुर्भावितदुर्मदाः । विश्वोपतापकारिण्यः करिण्य इव योषितः ॥२६॥ स कोऽपि स्मर्यतां मन्त्रः स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं ग्रसते शीलजीवितम् ॥२७॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन्नार्य्यः कामविहलाः ||२८|| संपिण्ड वाहिदंष्ट्राग्नियमजिह्वाविषाङ्कुरान् । जगज्जिघांसुना नायः कृताः क्रूरेण वेधसा ||२९|| यदि स्थिरा भवेद्विद्युत्ति ष्ठन्ति यदि वायवः । दैवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः ||३०|| यद्विना मन्त्रतन्त्राद्यैर्वव्च्यन्ते चतुरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ||३१|| अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी । प्रत्युक्षाण्यप्यकृ त्यानि यदपह्नुवते क्षणात् ॥ ३२॥ पीतोन्मत्तो यथा लोष्टं सुवर्णं मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं
द्वितीय
प्रकाशः
11RCOL