________________
योगशास्त्रम्
द्वितीय प्रकाश
BB
॥२७॥
अत्रान्तरश्लोकाः
पश्यन्ति कृष्णकुटिलां कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं न दुष्कर्मपरम्पराम् ॥१॥ सीमन्तिनीनां सीमन्तः पूर्णः सिदूररेणुना । पन्थाः सीमन्तकाख्यस्य नरकस्येति लक्ष्यताम् ॥२॥ भ्रूवल्लरीं वर्णिनीनां वर्णयन्ति न जानते । मोक्षाध्वनि प्रस्थितानां पुरोगामुरगीमिमाम् ॥३॥ भगुरानयनापानानानानां निरीक्षते । हतबुद्धिन तु निजं भङ्गरं हन्त जीवितम् ॥४॥ नासावंश प्रशंसन्ति स्त्रीणां सरलमुन्नतम् । निजवंशं न पश्यन्ति भ्रश्यन्तमनुरागिणः ॥५॥ स्त्रीणां कपोले संक्रान्तमात्मानं वीक्ष्य हृष्यति । संसारसरसीपडूमज्जन्तं वेत्ति नो जड: ॥६॥ पिबन्ति रतिसर्वस्वबुद्धया बिम्बाधरं स्त्रियाः। न बुध्यन्ते यत्कृतान्तः पिबत्यायुर्दिवानिशम् ॥७॥ योषितां दशनान् कुन्दसोदरान् बहु मन्यते । स्वदन्तभङ्गं नेक्षन्ते तरसा जरसा कृतम् ॥८॥ स्मरदोलाधिया कर्णपाशान् पश्यति योषिताम् । कण्ठोपकण्ठलुठितान् कालपाशांस्तु नात्मनः॥९॥ योषितां प्रोषितमतिमुखं पश्यत्यनुक्षणम् क्षणोऽपि हन्त नास्त्यस्य कृतान्तमुखवीक्षणे ॥१०॥ नरः स्मरपराधीनः स्त्रीकण्ठमवलम्बते । नात्मनो वेत्यसूनद्य श्वो वा कण्ठावलम्बिनः ॥११॥ स्त्रीणां भुजलताबन्धं बन्धुरं बुध्यते कुधीः । न कर्मबन्धनद्धमात्मानम नुशोचति ॥१२॥ धत्ते स्त्रीपाणिभिः स्पृष्टो हृष्टो रोमाञ्चकण्टकान् । स्मारयन्ति न किं तेऽस्य कूटशान्मलिकण्ट कान ॥१॥ कुचकुम्भौ समालिङ्गचा स्त्रियाः शेते मुखं जडः । विस्मृता नूनमेतस्य कुम्भीपाकोद्भवा व्यथा ॥१४॥ मध्यमध्यासते मुग्धा मुग्धाक्षीणां क्षणे क्षणे । एतन्मध्यं भवाम्भोधेरिति नैते विविठचते ॥१५॥ धिग (१) नष्टमतिः ।
१२७१॥