________________
योगशास्त्रम् ॥२७८॥ |
===000
नपुंसकत्व षण्ढवं तिर्यक्त्वं तिर्यग्भावः दौर्भाग्यमनादेयता भवे भवे जन्मनि जन्मनि, भवेत् जायेत, नराणां स्त्रीणां च । अन्यकान्तासक्तचेतसामिति श्लिष्टं द्वयोर्विशेषणम् । यदा पुरुषाणां तदा अन्यस्य कान्ता भार्या अन्यकान्ता तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः स चासौ कान्तश्च कामयिता तत्रासक्तचेतसाम् ॥ १०३ ॥ अब्रह्मनिन्दां कृत्वा ब्रह्मचर्यस्यैहिकं गुणमाह
प्राणभूतं चरित्रस्य परब्रह्मेककारणम् । समाचरन् ब्रह्मचर्यै पूजितैरपि पूज्यते ॥ १०४॥ प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च परब्रह्मणो मोक्षस्य, एकमद्वितीयं, कारणं समाचरन् पालयन् ब्रह्मचर्यं जितेन्द्रियस्योपस्थनिरोधलक्षणं पूजितैरपि सुरासुरमनुजेन्द्रः न केवलमन्यैः पूज्यते मनोवाक्कायोपचारपूजाभिः ॥ १०४ ॥
ब्रह्मचर्यस्य पारलौकिकं गुणमाह
चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ॥
चिरायुषो दीर्घायुषोऽनुत्तरसुरादिपूत्पादात् शोभनं संस्थानं समचतुरखलक्षणं येषां ते सुसंस्थाना: अनुत्तर सुरादिपूत्पादादेव, दृढं बलवत् संहननमस्थिसञ्चयरूपं वज्रऋषभनाराचाख्यं येषां ते दृढसंहननाः, एतच्च मनुजभवेत्पद्यमानानां देवेषु संहननाभावात् तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजस्विनः, महावीर्या बलवत्तमाः तीर्थकरचक्रवत्र्यादित्वेनोत्पादात्, भवेयुर्जायेरन् ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥
द्वितीय प्रकाशः
॥२७८॥