________________
योगशास्त्रम्
t૨૭છા
द्वितीय प्रकाश
ऋणं वैरं च जन्तूनां नश्ये जन्मान्तरेऽपि न ॥८५॥ क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः। आरोहत् क्षपकश्रेणिमपूर्वकरणक्रमात् ॥८६॥ ततः स भगवान् प्राप केवलज्ञानमुज्ज्वलम् । तस्य केवलमहिमा सधश्चक्रे सुरासुरैः ॥८७॥ उद्दिधीषुभवाब्जन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ॥८॥ तस्य देशनया तत्राबुद्धचन्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यबुद्धयत ॥८९॥ सीसन्निधावपि तदेवमषितात्मा, जन्तून् प्रबोध्य शुभदेशनया क्रमेण । स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तदुरापम् ॥१९०॥ ॥ इति सुदर्शनऋषिकथानकम् ॥१०१॥
धर्ये कर्मणि न पुरुषा एवाधिक्रियन्ते किन्तु स्त्रीणामप्यधिकारश्चतुर्वणे सङ्घ तासामप्यङ्गभूतत्वात् ततः पुरुषस्य परदारप्रतिषेधवत् स्त्रीणां परपुरुषगमनं प्रतिषेधयतिऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव त्याज्यो नार्या नरः परः॥१०२
ऐश्वर्येण विभवेन, राजराजो धनदः स इव राजराजः, आस्तामितरः। रूपेण सौन्दर्येण, मीनध्वजोऽपि स्म रोऽपि, आस्तामन्यः। त्याज्यः परिहरणीयः नार्या स्त्रिया परः स्वपतेरन्यो नरःपुरुषः, क इव कया, सीतया रावण इव । सीताचरितमुक्तमेव ॥१०२॥
___ स्त्रीपुंसयोईयोरपि परकान्तासक्तत्वस्य फलमाइनपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणांस्त्रीणां चान्यकान्तासक्तचेतसाम् ॥१०३
॥२७७॥