________________
योग
शास्त्रम्
॥२७६॥
यावधिसुदर्शनम् ||६७ || तमालिङ्गय महीपालोऽनुतापादित्यवोचत । श्रेष्ठिन्नहि विनष्टोऽसि दिष्टयाऽऽत्मीयप्रभावतः ||६८ || मया हि तावत्पापेन किं राज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागर्त्ति सर्वथा ॥ ६९ ॥ स्त्रीणां मायाप्रधानानां प्रत्ययात्वां निहन्ति यः । अविमृश्यकरः पापो नापरो दधिवाहनात् ॥७०॥ किंच किञ्चिदिदं पापं भवताऽप्यस्मि कारितः । असकृद्यन्मया साधो ! तदा पृष्टोऽपि नावदः ॥ ७१ ॥ एवमालपता राज्ञा करिण्यामधिरोप्य सः । नीत्वा स्वहम्र्म्ये स्नपितश्चन्दनैश्च विलेपितः ॥ ७२ ॥ वखालङ्कारजातश्च परिधाप्य सुदर्शनः । राज्ञा पृष्टो रात्रिवृत्तं यथातथमचीकथत् ॥७३॥ अथ राज्ञीं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्याधि शिरः प्रक्षिप्य पादयोः ॥७४॥ ततः श्रेष्ठी नृपेणेभमारोप्य पुरमध्यतः । महाविभूत्या तद्वेश्म नायितो न्यायतायिना || ७५ || अभयाऽप्येतदाकण्र्योद्बध्यात्मानं व्यपद्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥ ७६ ॥ पण्डिताऽपि प्रणश्यागात्पाटलीपुत्रपत्तनम् । अवसद्देवदत्ताया गणिकायाश्च सन्निधौ ॥७७॥ तत्रापि पण्डिता नित्यं तथाऽऽशंसत्सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूभृशमुत्सुका ॥७८॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपसृत्य गुरोः पार्श्वे रत्नमम्भोनिधेरिव ॥ ७९ ॥ तपः कृशाङ्ग एकाङ्गविहारप्रतिमास्थितः । स क्रमाद्विरन् प्राप पाटलीपुत्रपत्तनम् ||८०|| भिक्षार्थ पर्यटंस्तत्र दृष्टः पण्डितया च सः । कथितो देवदत्तायाः सा तया तमहत् ॥ ८१ ॥ भिक्षाव्याजात्तयाऽऽहूतस्तत्रापि स मुनिर्ययौ । विमर्शमविधायैव सापायनिरपाययोः ॥ ८२ ॥ देवदत्ता ततो द्वारं पिधाय तमनेकधा । दिनं कदर्थयामास चुक्षोभ स मुनिर्न तु ||८३|| अथ मुक्तो नया सायमुद्यानं गतवानसौ । तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥८४॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ
द्वितीय
प्रकाशः
॥२७६॥