________________
योग
शास्त्रम्
॥२७५॥
BOOK REET FOR MORE
॥४९॥ ततः सम्भावयामास दोषं तस्यापि भूपतिः । पारदारिकदस्यूनां तूष्णीकत्वं हि लक्षणम् ॥ ५० ॥ इत्यादिदेश स क्रोधात्सकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निगृह्यताम् ॥५१॥ आरक्षपुरुषैर्दोष्णि स धृत्वोत्पाटितस्ततः । बचसा सिद्धयो राज्ञां मनसेव दिवौकसाम् ॥ ५२ ॥ स मण्डितो मुखे मध्या शरीरे रक्तचन्दनैः । करवीरखजा मुण्डे कण्ठे कोशकमालया ॥५३॥ खरमारोप्य विधृतसूर्पच्छत्रः स तैस्ततः । वाद्यमानेनानकेनारेभे भ्रमयितुं पुरे ॥ ५४ ॥ कृतापराधः शुद्धान्ते वध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥५५॥ न युक्तं सर्वथाऽप्येतन्नेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूद् हाहारवयुतस्ततः ॥५६॥ एवं च भ्रम्यमाणोऽगाद् द्वारदेशे स्ववेश्मनः अदृश्यत महासत्यां स मनोरमयाऽपि च ॥ ५७ ॥ चिन्तयामास सा चैव सदाचारः पतिर्मम | भूपतिश्च प्रियाचारो दुराचारो विधिर्ध्रुवम् ॥ ५८ ॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मणः ॥५९॥ कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रवि श्यान्तर्जिनाचः साऽर्चयत्ततः || ६०|| कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः । भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न||६१॥ परमश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ ५२ ॥ अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलखियः ? || ६३ ॥ इतश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाज्ञा हि भयङ्करा ||६४ || स्वर्णाब्जासनतां भेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ||६५ || वधाय तस्य चारक्षैद्दढं व्यापारितः शितः । करवा लोऽपतत्कण्ठे पुष्पमाला च सोऽभवत् ॥ ६६ ॥ तद्दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । आरुह्य हस्तिनीं वेगाद्य
OOOOO
द्वितीय प्रकाशः
॥२७५॥