________________
योगशास्त्रम्
॥२७४
पाणौ स पाणिना ||३२|| निबिडं मण्डलीभूतपीनो चुङ्गस्तनं तया । भुजाभ्यां पद्मिनीनालमृदुलाभ्यां स सस्वजे ||३३|| एवं तदुपसर्गेषु निसर्गेण स धीरधीः । धर्मध्याने निश्चलोऽभूत् किं चलत्यचलः कचित् ॥ ३४ ॥ स दध्यौ चेति चेन्मुच्ये कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम ||३५|| अमानिताऽथ घटित - भ्रकुटि: कुटिलाशया । अभया तं भाषयितुमित्यभाषत निर्भया || ३६ || मुमूर्षो ! मूर्ख ! मा कार्षीर्मान्याया मेsवमाननाम् । न वेत्सि मानिनी नृणां निग्रहानुग्रहक्षमा ||३७|| मनोभववशाया मे वशमाविश रे जड ! । नो वेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ||३८|| इति संरम्भकाष्ठायां साऽऽरुरोह यथा यथा । धर्मध्याने महामाsसावारुरोह तथा तथा ||३९|| एवं कदर्थितो रात्रिं तया ध्यानान्न सोऽचलत् । किं क्षुभ्यते महाम्भोधि कापि नौदण्डताडनैः ॥४०॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखैर्वपुः । कोऽप्यसौ मे बलात्कारकारीत्युचै ररास च ॥४१॥ ततः प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् ॥४२॥ ओस्मन्न सम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ||४३|| सोचे संपृच्छय देव ! त्वामहं यावदिह स्थिता । एषोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥ ४४ ॥ एष मेष इवोन्मत्तो मन्मथव्यसनी ततः । रिरंसुर्मामयाचिष्ट पापिष्ठवाकोटिभिः ॥ ४५ ॥ ऊचे मयैष रे मैषीरसतीवत्सतीरपि शक्यन्ते हि चणकवन्मरिचानि न चर्वितुम् ||४६ || ततः परं बलात्कारादेष एवं चकार मे । मया च पूत्कृतमन्यदबलानां बलं न हि ॥४७॥ अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ बहुधैव सुदर्शनम् ॥४८॥ पृष्टोऽपि राज्ञा कृपया किश्चिनोचे सुदर्शनः । परतापोपशान्त्यै हि निघृष्टमपि चन्दनम्
COOKEDO CRE
द्वितीय
प्रकाशः
॥ २७४॥