________________
योग
शास्त्रम्
॥२७३॥
OXES CHOIN CH
नमद्य त्वमपि मा गमः || १५ || शिरो मे बाधत इति कृत्वोत्तरमिलापतेः तस्थौ राज्ञी प्रपञ्चे हि सिद्धसारस्वताः स्त्रियः ||१६|| ततो लेप्यमयीं काममूर्त्तिमाच्छाद्य वाससा । याने कृत्वा पण्डिताऽगात्प्रवेष्टुं राजवेश्मनि ॥१७॥ किमेतदिति पृच्छद्भिर्वेत्रिभिः स्खलिता तु सा । इत्यूचे पण्डिता भाण्डागारिकी कूटसम्पदाम् ॥१८॥ शरीरकारणादेवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ॥ १९ ॥ इयं प्रवेश्यते तस्मा त्प्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्त्तयः ॥२०॥ तदिमां दर्शयित्वैव याहीति द्वाःस्थ भाषिता । सा काममूर्त्तिमुद्घाटयादर्शयच्च जगाम च ॥ २१॥ सा प्रतीहारमोहाय गृहीताऽपरमूर्त्तिका । द्वित्रिव प्रविवेशाsो नारीणां छद्मकौशलम् ||२२|| याने सुदर्शनं न्यस्योत्तरीयेण पिधाय च । द्वाःस्थैरस्खलिताऽनीयाभयायाः पण्डिताऽऽर्पयत् ||२३|| आविविकारा साऽनेकप्रकारं मदनातुरा । अभया संक्षोभयितुमित्यभाषत तं ततः ||२४|| कन्दर्पो मां दुनोत्येष निःशङ्कं निशितैः शरैः । कन्दर्पप्रतिरूपस्तच्छ्रितोऽसि शरणं मया ||२५|| शरण्यः शरणयातामार्त्ती त्रायस्व नाथ ! माम् । परकार्ये महीयांसो कार्यमपि कुर्वते ॥ २६ ॥ आनी छद्मनाऽसीति कार्यः कोपस्त्वया न हि । कार्ये त्राणे यदार्त्तानां गृह्यते न खलु च्छलम् ||२७|| ततः सुदर्शनोऽप्युच्चैः परमार्थविचक्षणः । देवताप्रतिमेवास्थात्कायोत्सर्गेण निश्चलः ||२८|| पुनरप्यभयाऽवादीद्भावहावमनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ २९ ॥ व्रतकष्टमिदं मुश्च मा कृथास्त्वमतः परम् । मत्संप्राप्त्या व्रतफलं विद्धि संसिद्धमात्मनः ||३०|| ताम्यन्तीं याचमानां मां नम्रां मानय मानद । दैवात्पतितमुत्सङ्गे रत्नं गृह्णासि किं न हि ॥ ३१॥ कियदद्यापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया
द्वितीय
प्रकाशः
॥ २७३॥