________________
योगशास्त्रम्
द्वितीय प्रकाशा
૨૭ર
कथं कार्येत सोऽब्रह्म गुरुशीलाधुपासकः ॥९९॥ सदा गुरुकुलासीनो ध्यानमौनाश्रितः सदा । आनेतुमभिसत वा स कथं नाम शक्यते ॥१००॥ वरं फणिफणारत्नग्रहणाय १प्रतिश्रवः । कदापि न पुनस्तस्य शीलोल्लङ्घनकर्मणे ॥१॥ अथाभयोचे कथमप्येकवारं तमानय । तत ऊर्ध्वमहं सर्व करिष्यामि न ते च्छलम् ॥२॥ विचिन्त्य चेतसा किञ्चिदित्यवोचत पण्डिता । यद्ययं निश्चयस्ते तदस्त्युपायोऽयमेककः ॥शा पर्वाहे शून्यगेहादौ कायोत्सर्ग करोति सः । तथास्थितो यदि परमानेतव्योऽन्यथा तु न || उपायः साधुरेषोऽस्मिन् यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पर्याद्देव्यामोमित्युवाच सा ॥५॥ ततः परं व्यतीतेषु दिवसेषु कियत्स्वपि । विश्वानन्दकृत्कौमुदीमहोत्सव उपाययौ ॥६॥ अथ यज्ञोत्सवोत्सेकविधित्सोत्सुकचेतसा । आरक्षकाः समादिष्टाः पटहेनेत्यघोषयन् ॥७॥ सर्वद्धर्या सर्वलोकेन कौमुद्युत्सवमीक्षितुम् । अधोद्यानेडभिगन्तव्यमिति वो राजशासनम् ॥८॥ प्रातरेष्यच्चतुर्मासधर्मकर्मक्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्त विषादादित्यचिन्तयत् ॥९॥ मनः अहमिदं प्रातश्चैत्यवन्दनकर्मणे । उद्यानगतये चैतत्प्रचण्डं राजशासनम् ॥१०॥ क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समयॊपायनं भूमिपतिमेवं व्यजिज्ञपत् ॥११॥ प्रातः पर्वदिनं युष्मत्प्रसादाद्विदधाम्यहम् । देवार्चादीनि (ति) तेनोक्तोऽनुमेने तन्महीपतिः ॥१२॥ द्वितीयेऽहि जिनेन्द्राणां भक्क्या स्नात्रं विलेपनम् । अर्चा च रचयंश्चैत्यपरिपाठयां चचार सः॥१३॥ ततः सुदर्शनो रात्रौ गृहीत्वा पौषधव्रतम् कायोत्सर्गेण कस्मिश्चित्तस्थौ नगरचत्वरे ॥१४॥ पण्डिताऽप्यभयामृचे कदाचित्ते मनोरथाः । पूर्य्यन्ते परमुद्या(१) प्रतिज्ञा । २ उत्सुकम् ।
૨૭૨ા