________________
EDIO
योगशास्रम्
द्वितीय प्रकाधा
॥२७१॥
स्वयम् ॥८॥ तच्छुत्वा विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य गृहिणी तदस्याः कौशलं महत् ।। ॥८२॥ किमस्याः कौशलमिति रायोक्ता साऽब्रवीत्पुनः । इयन्ति पुत्रभाण्डानि यदसौ समजीजनत् ॥८३॥ स्वाधीनपतिका पुत्रानङ्गना जनयेद्यदि । तत्कि कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥८४॥ एवं देवि ! भव त्येव पतिर्यदि पुमान् भवेत् । सुदर्शनः पुनरयं पण्डः पुरुषवेषभृत ॥८५॥ कथमेतत्त्वया ज्ञातं राज्येति गदिता ततः । सा सुदर्शनवृत्तान्तं स्वानुभूतमचीकथत् ॥८६॥ अभयाऽप्यब्रवीदेवं यद्येवं वश्चिताऽसि तत् । मृढे ! पण्डः परस्त्रीषु न त्वयं निजयोषिति ॥८७॥ ततो विलक्षा कपिला प्रललापेत्यमूयिता । वञ्चिता यद्यहं मूढा प्राज्ञायाः किं तवाधिकम् ॥८८॥ अनयोचे मया मुग्धे ! रागतः पाणिना धृतः। द्रवेदनावाऽपि निःसंज्ञः ससंज्ञः कि पुनः पुमान् ॥८९॥ सासूयमूचे कपिलाऽप्येवं मा गर्वमुबह । गर्व वहसि चेद्देवि ! रम्यतां तत्सुदर्शनः ॥९०॥ व्याजहाराभया देवी साहङ्कारमिदं ततः । हला ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥११॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः तपस्विनोऽपि रमिताः कोऽसौ मृदुमना गृही ॥९२॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् । इत्यालपन्त्या वुद्यानं प्रपेदाते क्षणेन ते ॥९३।। तत्रारमयतां स्वैरं नन्दनेऽप्सरसाविव । अभयाकपिले श्रान्ते स्वं स्वं धाम गते ततः॥९४॥ अथ तत्राभया राज्ञी स्वप्रतिज्ञामजिज्ञपत् । धात्रिकां पण्डितां नाम सर्वविज्ञानपण्डिताम् ॥१५॥ पण्डिताऽवोचदाः ! पुत्रि ! न युक्तं मन्त्रितं त्वया । अज्ञेऽद्यापि न जानासि धैर्यशक्ति महात्मनाम् ॥१६॥ जिनेन्द्रमुनिशुश्रूषानिष्कम्पीकृतमानसः। सुदर्शनः खल्वसौ तत्प्रतिज्ञां घिगिमां तव ॥९७॥ अन्योऽपि श्रावको नित्यं परनारीसहोदरः । किमुच्यते पुनरसौ महासत्वशिरोमणिः ॥९८॥ ब्रह्मचर्यधना नित्यं गुरखो यस्य साधवः
॥२७१॥