________________
योगशास्रम्
द्वितीय प्रकाशा
UR SOIL
वन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥६५॥ त्वद्वयस्यः शशंस त्वां यदाऽद्भुतगुणं मम । ततः प्रभृति मामेष दुनोति मदनज्वरः ॥६६॥ दिष्टया मे बिरहा याश्छद्मनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥६७॥ अद्य नाथामि तन्नाथ ! मन्मथोन्माथविहलाम् । निजाश्लेषसुधावर्षे राश्वासय चिराय माम् ॥६७॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक् स्त्रीरिति विचिन्त्योचे स प्रत्युत्पन्नधीरिदम् ॥६९॥ यूनां युक्तमिदं किन्तु १पण्डकोऽहमपण्डिते! । मुधा पुरुषवेषेण मदीयेनासि वश्चिता ॥७०॥ ततो विरक्ता सद्यः सा याहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥७१।। स्तोकेन मुक्तो नरकद्वारादस्मीति चिन्तयन् । श्रेष्ठिसू नुई तपदं प्रपेदे निजमन्दिरम् ॥७२॥ अतिराक्षसयः कूटादतिशाकिनयश्छलात् । अतिविद्युतचापलादारुणाः किमपि स्त्रियः ॥७३॥ एताभ्यो भीरुरस्मीति प्रत्यौपीद्विमृश्य सः । नातः परं परगृहे यास्यामि कचिदेककः ॥७४॥ निर्मिमाणः स धाणि कर्माणि शुभकर्मठः। सतां मूर्त इवाचारो नावचं किञ्चिदाचरत् ॥७५॥ एकदा तु यथाकालं पुरे तस्मिन्नवर्तत । समग्रजगदानन्दपदमिन्द्रमहोत्सवः ॥७६॥ सुदर्शनपुरोधोभ्यां सहोद्यानं ययौ नृपः । साक्षादिव शरत्कालश्चन्द्रागस्तिविराजितः ॥७७॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इब नाकिनी ॥७८॥ सुदर्शनस्य भार्याऽपि पइभिः पुत्रैर्मनोरमा । तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥७९॥ तां दृष्ट्वा कपिलाऽपृच्छत्केयं स्वामिनि ! वणिनी । रूपलावण्यसर्वस्वभाण्डागार इवाग्रतः ॥८॥ ततस्तामभयाऽवादीन्न ज्ञातेयमपि त्वया । सुदर्शनस्य गृहिणी गृहलक्ष्मीरिव (१) क्लीवः
(२) देवी।
॥२७॥