________________
योगशास्त्रम् ॥२६॥
द्वितीय प्रकाशा
कान्त्येन्दुस्तेजसा रविः । गाम्भीर्येण महाम्भोधिः क्षमया मुनिसत्तमः ॥४९॥ दानकचिन्तामाणिक्यं गुणमाणिक्यरोहणः । प्रियालापसुधाकुण्डं वसुधामुखमण्डनम् ॥५०॥ रखलूक्त्वा खलु यद्वाऽस्य निखिलानपरान् गुणान् । गुणचूडामणेः शीलं यस्य न स्खलति कचित् ॥५१॥ कपिला कपिलाच्छुत्वा तद्गुणान् कामविला । चक्रेडनुरागं चपलाः प्रायेण द्विजयोषितः ॥५२॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः। कपिला चिन्तयामास परं ब्रह्मव योगिनी ॥५३॥ अपरेधुर्नपादेशानामान्तररमुपेयुषि । कपिले कपिलेयाय सुदर्शननिकेतनम् ॥५४॥ सा मायाविन्यवोचत्तमद्य त्वत्सुहृदो महत् । शरीरापाटवं तेन हेतुना नाययाविह ॥५५॥ अपाटवं त्वद्विरहाद्वपुषो द्विगुण यतः । अतस्त्वामहमाहातुं प्रेषिता सुहृदा तव ॥५६॥ नैतजज्ञातं मयेत्युक्त्वा तदैवागात्स तद्गृहम् नान्यमायां हि शङ्कन्ते सन्तः स्वयममायिनः ॥५७॥ स तत्र प्रविशन्नूचे क नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते ॥५८॥ किश्चिच्च परिसृप्याग्रे पुनः प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किम न्यत्र कचिद्ययौ ॥५९॥ सोचे स्थितो निवातेऽम्ति शरीरापाटवादसौ । मूलापबरकं गच्छ बयस्यं तत्र पश्य च ॥ ॥६०॥ तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिलः कास्तीत्युवाच सरलाशयः ॥६१।।अवरुद्धय ततो द्वारं मदनोद्दीपनानि सा । किश्चित्प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा ॥६२॥ दृढबन्धामपि नीवीं श्लथयित्वाऽभिवध्नती । विलोललोचनाऽवोचद्रोमाञ्चोदश्चिकन्चुका ॥६३॥ (युग्मं) नास्तीह कपिलस्तस्मात्कपिलां प्रतिजागृहि । बिभेदो भवतः को वा द्वयोः कपिलयोननु ॥६४॥ प्रतिजागरितव्यं किं कपिलाया इति ब्रु
(१) अलम् ।
॥२६९॥