________________
योगशाखम् १२६८॥
द्वितीय प्रकाशा
गर्भस्थिते मासि तार्तीयीके व्यतीयुषि । श्रेष्टिनी श्रेष्टिने स्वस्य दोहदानित्यचीकथत् ।।३३।। गन्धोदकैः स्नपयितुं विलेप्तुं च विलेपनैः । अचितुं कुसुमैरिच्छाम्यहतां प्रतियातनाः॥३४॥ प्रतिलम्भयितुं साधूनिच्छाम्याच्छादनादिभिः। संघं पूजयितुं दातुं दीनेभ्यश्च मतिर्मम ॥३५॥ इत्यादिदोहदांस्तस्याः श्रुत्वा मुदितमानसः। चिन्तामणिरिव श्रेष्ठिशिरोमणिरपूरयत् ॥३६॥ ततो नवसु मासेषु दिनेष्वाष्टमेषु च । गतेषु श्रेष्ठिनी पुत्रमसूत शुभलक्षणम् ॥३७॥ सद्यो महोत्सवं कृत्वा श्रेष्ठि हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थ नाम निर्ममे ॥३८॥ बर्द्धमानः क्रमात्पित्रोमनोरथ इवोच्चकैः । सुदर्शनो यथौचित्यं जग्राह सकलाः कलाः ॥३९॥ कन्यां मनोरभां नाम मनोरमकुलाकृतिम । साक्षादिव रमा श्रेष्ठी तेन तां पर्यणाययत् ॥४०॥ सौम्यमूर्तिः स हर्षाय पित्रोरेव न केवलम् । जज्ञे राज्ञोऽपि लोकस्य सर्वस्य च शशाङ्कवत् ॥४१॥ इतो नगर्या तत्राभूभूपते हृदयङ्गमः। पुरोधाः कपिलः प्राप्तरोधा विद्यामहोदधेः ॥४२॥ समं सुदर्शनेनास्य मन्मथेन मधोरिव । अजायत परा प्रीतिः सर्वदाऽप्पविनश्वरी ॥४३॥ (युग्मम्) प्रायः सुदर्शनस्यैव स पुरोधा महात्मनः । रौहिणेय इवोष्णांशो परिपार्श्वमवर्तत ॥४४॥ कपिलं कपिला नाम भार्यापृऽच्छत्तमन्यदा । विस्मरनित्यकर्माणि कियत्कालं नु तिष्ठसे ॥४५॥ पार्वे सुदर्शनस्याई तिष्ठामीति तदीरिते। कोऽसौ सुदर्शन इति तयोक्तः प्रत्युवाच सः ॥४६॥ मम मित्रं सतां धुर्य विश्वैकप्रियदर्शनम् । सुदर्शनं न चेद्वेत्सि तवं वेत्सि न किश्चन ॥४७॥ तं ज्ञापयाधुनापीति तयोक्तः कपिलोऽवदत् । असावृषभदासस्य श्रेष्ठिनस्तनयः सुधीः ॥४८॥ एष रूपेण पञ्चेषुः
(१) प्रतिमाः (१) प्राप्तपारः
१२६८॥