________________
पौगशास्त्रम्
॥२६७॥
ततः पप्रच्छ तं श्रेष्टीं विश्वोत्कृष्टप्रभावभृत् । प्राप्तं पञ्चपरमेष्ठिनमस्कारपदं कुतः || १५ || अशेषं महिषीपालः कथयामास तत्ततः । साधु भोःसाधु भद्रेति शंसन् श्रेष्ठी जगाद तम् ॥ १६॥ आकाशगमने हेतुरसौ विद्या न केवलम् किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥ १७॥ यत्किञ्चित्सुन्दरं वस्तु दुष्प्रापं भुवनत्रये । लीलया प्राप्यते सर्वं तदमुष्य प्रभावतः || १८ || अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिव ||१९|| साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः किन्तूचि हैर्ग्रहीतव्यं गुरुनाम न जातुचित् ||२०|| व्यसनी व्यसनमिव न त्यक्तं क्षणमप्यदः । अलमस्मीति तेनोक्तः श्रेष्ठी हृष्टोऽब्रवीदिदम् ||२१|| तदधीष्वास्विलां पञ्चपरमेष्ठिनमस्क्रियाम् । कल्याणानि यथा ते स्युः परलोकैहलोकयोः ॥२२॥ ततोऽशेषनमस्कारं लब्धार्थमिव तद्धनः । परावर्त्तयताजस्त्रं सुभगः सुभगाशयः ||२३|| महिषीपालकस्यास्य श्रुत्तष्णावेदनाहरः । परमेष्ठिनमस्कारः प्रकामं समजायत ||२४|| एवं तस्य नमस्कारपाठव्यसननिनः सतः । कियत्यपि गते काले वर्षाकालः समाययौ ||२५|| धारानाराचधोरण्या प्रसर्पिण्या निरन्तरम् । अकीलयदिव द्यावापृथिव्यौ नव्यवारिदः ||२६|| गृहाद्गृहीत्वा महिषीःस्रुभगोऽपि बहिर्गतः । विनिवृत्तोऽन्तराऽपश्यद्घोरपूरां महानदीम् ||२७|| तां दृष्ट्वा स मनाग् भीतस्तस्थौ किञ्चिद्विचिन्तयन् । नदीं तीर्त्वा परक्षेत्रे महिष्यः प्राविशस्ततः ॥ २८ ॥ नमस्कारं पठन् व्योमयानविद्याधिया ततः । उत्पपात कृतोत्फालो मध्येनदि पपात च ॥ २९|| तत्रान्तः कर्दमं मग्नः खरः खदिरकीलकः । कृतान्तदन्तसोदर्यो हृद्यस्य प्रविशेश च ॥ ३० ॥ तथैवावर्त्तयन् पञ्चपरमेष्ठिनमस्क्रियाम् । तदा मर्माविधा तेन कालधर्ममियाय सः ॥३१॥ श्रेष्ठिपत्न्यास्ततः सोऽईदास्याः कुक्षाववातरत् । नमस्काररतानां हि सद्गतिर्न विसंवदेत् ॥३२॥ तस्मिन्
ENO ONE OR ROKE
द्वितीय
प्रकाशः
॥२६७