________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२६॥
वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणं सुदर्शनसमुन्नतेः शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शनप्रभावकस्येत्यर्थः ।
सुदर्शनश्च संप्रदायगम्यः । स चायम्
अस्त्यङ्गदेशेऽत्यलकापुरी चम्पेति तत्र च । दधिवाहन इत्यासीद्राजाऽतिनेरवाहनः ॥१॥ अभूत्तस्याभया नाम कलाकौशलशालिनी । महादेवी स्वलावण्यावज्ञातत्रिदशाङ्गना ॥२॥ इतो नगर्यां तस्यां च समग्रवणिमग्रणीः । श्रेष्टी वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि ॥३॥ यथार्थनामिका जैनधर्मोपासनकर्मणा । अर्हद्दासीति तस्यासीद वल्लभा शीलशालिनी ॥४॥ श्रेष्ठिनस्तस्य महिषीरक्षोऽभूत्सुभगाभिधः । अनैपीन्महिषीनित्यं स तु चारयितुं वने ॥५॥ वनानिवृत्तः सोऽन्येधुर्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ॥६॥ अस्यां हिमगिरी स्थाणुरिव यः स्थास्यति स्थिरम् । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥७॥ महामुनिमवज्ञातहिमानीपातवेदनम् । तमेव चिन्तयन्नाद्रमना रात्रि निनाय सः ॥८॥ अविभातविभावगृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमास्थितः ॥९॥ कल्याणीभक्तिरानम्योपासाञ्चके सतं तदा । अहो नैसर्गिकः कोऽपि विवेकस्तादृशामपि ॥१०॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रद्धया तमिव द्रष्टुं कायोत्सर्ग स्थितं मुनिम् ॥११॥ स नमो अरिहन्ताणमिति वाचमुदीरयन् । द्वितीय इव चण्डाशुरुत्पपात नभस्तले ॥१२॥ आकाशगामिनी नूनमियं विद्येति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥१३॥ जाग्रत्स्वपन्नटस्तिष्ठन्दिवा निशि गृहे बहिः। तदपाठीत स उच्छिष्टोऽप्येकपाहा हि तादृशाः ॥१४॥
HAMARARIANRASHRI
२६६॥