________________
योग
द्वितीय प्रकाशा
शास्त्रम् ॥२६५॥
रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन्न धारया ॥७५॥ तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः। निजाश्वरप्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥७६॥ सीता स्वर्णशलाकेव निर्मला शीलशालिनी । रामेण जगृहे लङ्काराज्ये न्यस्तो विभीषणः ॥७७॥ शत्रु निहत्य ससहोदरदारमित्रो, रामो ययावथ निजां नगरीमयोध्याम् । उत्पन्नया परकलत्ररिरंसयाऽपि, कृत्वा कुलक्षयमगाभरकं दशास्यः ॥२७८॥
॥ इति सीतारावणकथानकम् ॥९९॥ तस्मात् । Al लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात्परस्त्रियम् ॥१०॥
दुस्त्यजामपि परस्त्रियं जह्यात्परिहरेत् । दुस्त्यजत्वे हेतूनाह-लावण्यपुण्यावयवां लावण्यं स्पृहणीयतारूपादिभ्योऽतिरिक्तं तेन पुण्याः पवित्रा अवयवा यस्यास्तां, पदं स्थानं सौन्दर्यसंपदो रूपसम्पदः कला द्वासप्ततिलेखाद्याः स्त्रीजनोचिताः तासां कलापः समूहस्तत्र कुशलां प्रवीणाम् । लावण्यं, रूपं, वैदग्ध्यं च परदाराणां दुस्त्यजत्वे हेतुः । अपिशब्दस्त्रिप्वपि हेतुषु सम्बन्धनीयः ॥१०॥ परस्त्रीगमने दोषानभिधाय परस्त्रीविरतान् प्रशंसतिअकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ? ॥१०१॥
परस्त्रीसन्निधानेऽपि निष्कलङ्कचेतोवृत्तेः सुदर्शनाभिधानस्य महाश्रावकस्य किं ब्रुमः कां स्तुति कुर्महे ? ।
॥२६॥