________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२६॥
आदिक्षत्तत्कृते रामस्तमेव हनुमधुतम् ॥५९॥ ईयतुस्तौ विमानेनायोध्यां पवनरंहसा । प्रासादाङ्के ददृशतुः शयानं भरतं ततः ॥६०॥ भरतस्य प्रबोधाय तौ गीतं चक्रतुः कलम् । राजकार्येऽपि राजान उत्थाप्यन्ते ह्युपायतः ॥६१॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डलः कार्य नाप्तस्याप्ते प्ररोचना ॥६२॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात्पुरं कौतुकमङ्गलम् ॥६३॥ भरतेन द्रोणघनो विशल्यामथ याचितः । स २होद्वाह्य स्त्रीसहससहितां तामदत्त च ॥६४|| भामण्डलोऽप्ययोध्यायां मुक्त्वा भरत मुत्मकः । आययौ सपरीवारविशल्यासंयुतम्ततः ॥६५॥ ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टो निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् ॥६६॥ तया च पाणिना स्पृष्टाल्लक्ष्मणात्तत्क्षणादपि । निःसृत्य काप्यगाच्छक्तियष्टिनेव महोरगी ॥६७॥ तस्याः स्नानाम्भसाऽन्येऽपि रामादेशादथोक्षिताः। निःशल्या जज्ञिरे सैन्याः पुनर्जाता इव क्षणात् ॥६८॥ अस्याः स्नानाम्भसा सेक्तुं कुम्भकर्णादयोऽपि ते। आनीयतामिहेत्युच्चैरादिदेश रघूद्वहः ॥६९॥ तदानीमेव तैर्देव प्रव्रज्या जगृहे स्वयम् । इति विज्ञपयामामुरारक्षा लक्ष्मणाग्रजम् ॥७॥ बन्धास्तेऽद्य महात्मानो मोच्या मुक्तिपथस्थिताः । इति रामगिराऽऽरक्षनत्वाऽमुच्यन्त ते क्षणात् ॥७॥ विशल्यां कन्यकास्ताश्च तदोपायंस्त लक्ष्मणः । रावणोऽपि स्णायागादमर्पणशिरोमणिः ॥७२॥ प्रणम्य राम सौमित्रिरुत्तस्थेऽधिज्यकार्मुकः । विवाहाद्युत्सवेभ्योऽपि वीराणामुत्सवो रणः ॥७३॥ यद्यदखं दशग्रीवो विससर्जातिदारुणम् । तत्तच्चिच्छेद सौमित्रिरस्त्रैः कदलिकाण्डवत् ॥७४॥ अस्त्रच्छेदादथ क्रुश्चक्रं चिक्षेप १ हिते जने हितजनस्य प्ररोचना न भवति ।
२ ह इति स्फुटार्थेऽव्ययम् ।
॥२६४॥