________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२६३॥
पाताथ कृत्वौजो रावणानुनात् । मुष्टो धृतः कियत्कालं ननु तिष्टति पारदः ॥४२॥ वलितः कुम्भकर्णोऽपि रामेण युयुधे ततः। सौमित्रिणा मेघनादोऽप्रमादः क्षोभयन् जगत् ॥४३॥ मिलितौ रामपौलस्त्यावन्धी पूर्वापराविव । अभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥४४॥ रावणावरजं रामो रावणिं लक्ष्मणः पुनः । पातयित्वाऽग्रहीत्सत्यं रक्षसामपि राक्षसः ॥४५॥ रावणैरावणो रोषादशेषकपिकुञ्जरान् । पिपन्नथाययौ युद्धभुवं भुवनभीषणः ॥४६॥ अलमार्य ! स्वयं युद्धेनेति राम निवारयन् । सौमित्रिरभ्यमित्रीणो बभूवास्फालयन् धनुः ॥४७॥ चिरं युद्धवाऽखिलैरस्त्रैरनविद्रावणस्ततः । जघानामोधया शक्या मक्षु वक्षसि लक्ष्मणम् ॥४८॥ शक्या भिन्नोऽपतत्क्षोण्यां लक्ष्मणस्तत्क्षणादपि । तथैव सद्यो रामोऽपि बलवच्छोकशङ्कुना ॥४९॥ कृत्वा वप्रान् भटैरष्टौ प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ॥५०॥ मरिष्यत्यद्य सौमित्रिस्तदभावे तदग्रजः । कि मुधा मे रणेनेति रावणोऽगात्पुरी ततः॥५१।। राघवं परितो जाते वप्रद्वारचतुष्टये । सुग्रीव प्रमुखास्तस्थुरारक्षीभूय ते निशि ॥५२॥ भामण्डलमथोपेत्य दक्षिणद्वाररक्षणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः॥५३॥ अयोध्याया योजनेषु द्वादशस्वस्ति पत्तनम् । कौतुकमङ्गलमिति तत्र द्रोणघनो नृपः।५४॥ । कैकेयीभ्रातुरस्यास्ति विशल्या नाम कन्यका । तस्याः स्नानाम्भसः स्पर्शे शल्यं निर्याति तत्क्षणात् ॥५५॥
आप्रत्यूषालक्ष्मणश्चेत्तत्स्नानपयसोक्ष्यते । गतशल्यस्तदा जीवेदन्यथा तु न जीवति ॥५६॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥५७॥ त्वर्यतां स्वामिकार्याय प्रत्यूषे किं करिष्यथ । उदस्ते शकटे हन्त कि कुर्वीत गणाधिपः ॥५८॥ भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् ।
॥२६३॥