________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२६२॥
मेकपाटकलीलया ॥२५॥ ___ अत्रान्तरे दशग्रीवं प्रणम्योचे बिभीषणः। कनिष्ठस्यापि मे स्वामिन्नधैकं वचनं कुरु ॥२६॥ आयातो रामभद्रोऽत्र निजां जायां च याचते । अर्यतां तदसौ सीता धर्मोऽप्येवं न बाध्यते ॥२७॥ अथोचे रावणो रोषाद्रे बिभेषि बिभीषण । तदेवमुपदेशं मे दत्से कापुरुषोचितम् ॥२८॥ विभीषणो बभाषेऽथ दूरे रामः सलक्ष्मणः। तत्पत्तिरेको हनुमान दृष्टो देवेन कि न हि ॥२९॥ अस्मद्वेषी विपक्षानुरागी ज्ञातोऽसि याहि रे । इति निर्वासितस्तेन ययौ रामं विभीषणः ॥३०॥ लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । न ह्यौचित्ये विभु ह्यन्ति महात्मानः कदाचन ॥३१॥ बहिनिर्गत्य लड़ेशसेना राघवसेनया । कांस्यतालं कांस्यताले नेवास्फलदथोल्वणम् ॥३२॥ प्राणसर्वस्वदेविन्योमिथश्चम्वोर्गतागतम् । जयश्रीः श्रीरिवाकार्षीदुत्तमर्णाधमर्णयोः ॥३३॥ रामभ्रसंज्ञयाऽऽज्ञप्ता हनूमत्प्रमुखास्ततः । जगाहिरे द्विषत्सैन्य सुरा इव महोदधिम् ॥३४॥ हताः केऽपि धृताः केऽपि नाशिताः केऽपि राक्षसाः । प्रसरशी रामवीरेदुरारणेरिव ॥३५॥ कुम्भकर्णस्तदाकर्ण्य क्रुद्धो वह्निरिव ज्वलन् । मेघनादश्च सावेशः प्रविवेश रणाङ्गणम् ॥३६॥ तावापतन्तौ कल्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैर्मनागपि ॥३७॥ सुग्रीवोऽथ रुषोत्पाठय शिलामिव शिलोचयम् । अक्षिपत्कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥३८॥ पुनर्गदाप्रदारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्कां प्रत्यचलत्ततः ॥३९॥ मेघवन्निनदन्मेघनादोऽपि मुदितस्ततः । प्लवङ्गान् प्लावयामास निशातशरवृष्टिभिः ॥४०॥ डुढौके तिष्ठ तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मणः ॥४१॥ सुग्रीवोऽप्युत्प
॥२६२॥