________________
योगशास्त्रम्
द्वितीय 'प्रकाशः
॥२६॥
उपेत्य भजनीय तं भजन्तं भज रावणम् । अहमन्याश्च तद्राश्यस्त्वदाज्ञां सुभ्र ! विभ्रतु वा सीताऽप्यवोचदाः पापे पतिदृस्यविधायिनि । त्वद्भर्तुरिव वीक्षेत मुख दुर्मुखि कस्तव ॥९॥ रामस्य पार्श्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक धवं तव सबान्धवम् ॥१०॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे वच्मि नातः परं त्वया । सीतया तर्जितैवं सा सकोपा प्रययौ ततः॥११॥ अथावतीर्य हनुमान् सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि न जयति दिष्टया रामः स लक्ष्मणः ॥१२॥ त्वप्रवृत्तिकृते रामेणादिष्टोऽहमिहागमम् । मयि तत्र गते राम इहैण्यति रिपुच्छि दे ॥१३॥ पतिदूतं हनूमन्तमभिज्ञानसमर्पकम् । प्रीता सीताऽप्यथाशीर्भिरमोघाभिरनन्दयत् ॥१४॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकोनविंशत्युपवासान्ते व्यधित भोजनम् ॥१५॥ प्राभञ्जनिः प्रभञ्जन इवोद्यानस्य भञ्जने । प्रवृत्तो दशकण्ठस्य बलालोकनकौतुकात् ॥१६॥ भज्यमानं तद्यानं तेन मानमिवोच्चकैः । उपेत्य दशकण्ठस्याशंसन्नुद्यानपालकाः ॥१७॥ आरक्षा रावणादिष्टास्तं निहन्तुं समागताः । हता हनूमतैकेन विचित्रा हि रणे गतिः ॥१८॥ आदिष्टो दशकण्ठेन साटोपः शक्रजित्ततः। तबन्धायामुचत्पाशान् पाशैः स्वं सोऽप्यवन्धयत् ॥१९॥ नीतश्चाग्रे दशास्यस्य दलयन् मुकुटं पदा । उत्पपातापास्तपाशस्तडिदण्ड इवानिलि: ॥२०॥ हन्यतां गृह्यतां चैष इति जल्पति रावणे । अनाथामिव सोऽभाक्षीत्तत्पुरी पाददर्दरैः ॥२१॥ क्रीडां कृत्वैवमुत्पत्त्य सुपर्ण इव पावनिः । एत्य रामं नमस्कृत्य तं वृत्तान्तं व्यजिज्ञपत् ॥२२॥ रामस्तं गाढमाप डयो रसा सुतमिवौर पम् । लङ्काविजययात्रायै सुग्रीवादीनथादिशत् ॥२३॥ समुद्रं रावणारखं वद्भवा सेतुं च राघवः । लङ्कापुरी विमानस्थः मुग्रीवाद्यैः समं ययौ ॥२४॥ निवेश्य कटकं रामो इंसद्वीपान्तरे ततः। अववेष्टदबलेलङ्का
॥२६॥