________________
योगशास्त्रम् १२६०॥
हितीय प्रकाश
चापमिति रामस्ततर्ज तम् ॥८२॥ एकेनापीषुणा प्राणांस्तस्याहाद्रिचूद्वहः । न द्वितीया चपेटा हि हरेहरिणमारणे ॥९३॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ॥९४॥
इतश्च रामकार्यायागाद्विराधः समं बलैः । स्वामिकृत्यमकृत्वा हि कृतज्ञा नासते सुखम् ॥९५॥ भामण्डलोऽपि तत्रागाद् विद्याधरचमृवृतः। प्रभुकार्य कुलीनानामुत्सवो द्युत्सवादपि ॥ ६९ ॥ जाम्बुवद्धनुमन्नीलनलादीन् विदितौजसः । सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥९७॥ विद्याधरचमूचक्रेष्वायातेष्वय सर्वतः । उपेत्य राम सुग्रीवः प्रणम्यवं व्यजिज्ञपत् ॥९८॥ रहनूमानाञ्जनेयोऽयं विजयी पावनञ्जयिः । सीताप्रवृत्त्यै लङ्कायां त्वदादेशाद ब्रजिष्यति ॥९९॥ रामेणाज्ञापितो दत्त्वा स्वमभिज्ञानमूमिकाम् । नभस्वानिव नभसा नभखत्तनयो ययौ ॥२००॥ सोऽगात्क्षणेन लङ्कायामुद्याने शिशपातले । सीतामपश्यद्धयायन्तीं नाम रामस्य मन्त्रवत् ॥१॥ तरुशाखातिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तदृष्ट्वा मुमुदे च सा ॥२॥ तदेव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽऽसीत् सानन्दा त्वद्य जानकी ॥३॥ मन्ये विस्मृतरामेयं रिरंसुर्मयि संप्रति । तद्गत्वा बोध्यतामित्यादिक्षत् मन्दोदरीं स तु ॥४॥ ततश्च पत्युदत्येन तत्र मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥५॥ अद्वैतैश्वर्यसौन्दर्यवर्यस्तावधशाननः । त्वमप्यप्रतिरुपैव रुप लावण्यसम्पदा ॥६॥ यद्यप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथापि ह्यस्तु संप्रति ॥७॥ (१) हनुमानिति सर्वत्र पाठः ।
UROON